तत्रायोगोऽनुरागेऽपि नवयोरेकचित्तयोः ॥ ५० ॥
पारतन्त्र्येण दैवाद् वा विप्रकर्षादसंगमः ।

योगः=अन्योन्यस्वीकारः, तदभावः=अयोगः । पारतन्त्र्येण विप्रकर्षाद् देवीपित्राद्यायत्तत्वात् सागरिकामालत्योर्वत्सराजमाधवाभ्यामिव, दैवाद् गौरीशिवयोरिवासमागमः=अयोगः ।

230 अयोगो योगस्य प्रागभावः, विप्रयोगस्तस्य प्रध्वंसाभाव इत्यभिप्रायेण व्युत्पादयति योगः=अन्योन्यस्वीकार इति । असौ पारतन्त्र्येणासंयोगः =अयोगः देवीपित्राद्यायत्तत्वाद्1093 दैवाद् वा विप्रकर्षः । अत्र 1094देव्यायत्तत्वाद् विप्रकर्षो वत्सराजसागरिकयोः, पित्रायत्तत्वाद् विप्रकर्षो माधवमालत्योः, दैवायत्तत्वाद् विप्रकर्षो गौरीशिवयोरित्यर्थः ।

  1. Gr.MS. gives this reading clearly. M.G.T. and Tri.MS. read as -pitrādyāyattā- … N.S.P. reads here daivapitrādyāyattatvāt, etc. It is surely devī-, etc. which is also given in A.T.A.

  2. Here Tri.MS. reads as daivāyattatvāt, etc.