232
दशावस्थत्वमाचार्यैः प्रायोवृत्त्या निदर्शितम् ॥ ५५ ॥
महाकविप्रबन्धेषु दृश्यते तदनन्तता ।

दिङ्मात्रं तु—

दृष्टे श्रुतेऽभिलाषाच्च किं नौत्सुक्यं प्रजायते ॥ ५६ ॥
अप्राप्तौ किं न निर्वेदो ग्लानिः किं नातिचिन्तनात् ।

शेषं प्रच्छन्नकामितादि कामसूत्रादवगन्तव्यम् ।

आचार्यैरयमयोगो दशावस्थ इति यदुक्तं तत् प्रायोवृत्त्या । वस्तुतस्तु अवस्थानामानन्त्यमेवेत्याह दशावस्थत्वमिति । तस्यानन्त्यस्य दिङ्मात्रं प्रदर्श्यते । काम्यस्य दर्शनाद् भवत्यौत्सुक्यमपि । तथा तस्मिन्नप्राप्तेऽपि भवति निर्वेदः । अतिचिन्तनादपि भवति ग्लानिः । यत्तु स्फुटाभिसरणोपायाभावे प्रच्छन्नकामित्वादि एतत् कामसूत्रादवगन्तव्यमित्यर्थः ।