233

अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूद् गोदावरीसैकते ।
आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातर्यादरविन्दकुड्‏मलनिभो मुग्धः प्रणामाञ्जलिः ॥1104

प्रणयमानशब्दार्थं निरूपयन्नाह प्रेमपूर्वक इति ।

नायिकाया यथा श्रीवाक्पतिराजदेवस्य—

प्रणयकुपितां दृष्ट्वा देवीं ससंभ्रमविस्मित- स्त्रिभुवनगुरुर्भीत्या सद्यः प्रणामपरोऽभवत् ।
नमितशिरसो गङ्गालोके तया चरणाहता- ववतु भवतस्त्र्यक्षस्यैतद् विलक्षमवस्थितम् ॥

उभयोः प्रणयमानो यथा— 1105

पणअकुविआण दोण्ह वि अलिअपसुत्ताण माणहंताणं ।
णिच्चलणिरुद्धणीसासदिण्णअण्णाण को मल्लो ॥1106

पणअकुविआण ।

प्रणयकुपितयोर्द्वयोरप्यलीकसुप्तयोर्मानवतोः ।
निश्चलनिरुद्धनिःश्वासदत्तकर्णयोः कः समर्थः ॥

स्त्रीणामीर्ष्याकृतो मानः कोपोऽन्यासङ्गिनि प्रिये ।
श्रुते वानुमिते दृष्टे श्रुतिस्तत्र सखीमुखात् ॥ ५९ ॥
उत्स्वप्नायितभोगाङ्कगोत्रस्खलनकल्पितः ।
त्रिधानुमानिको दृष्टः साक्षादिन्द्रियगोचरः ॥ ६० ॥

  1. ३ । ३७
  2. A.T.A. reads the last two words of the verse as komalo maṇṇu (komalo manyuḥ). Bh.Nṛ. gives the chāyā (of mallo) assamarthaḥ, whereas the N.S.P. gives it as mallaḥ.

  3. गाथा॰ १ । २७