235 केलीगोत्तक्खळणे ।

केलीगोत्रस्खलनेऽपि कुप्यति कैतवमजानन्ती ।
1112दुर्दमस्य कस्यचित् (?) मृषापरिहासं, वधूः सत्यमेव प्ररुदिता ॥

दृष्टो यथा श्रीमुञ्जस्य—

प्रणयकुपितां दृष्ट्वा देवीं ससंभ्रमविस्मित- स्त्रिभुवनगुरुर्भीत्या सद्यः प्रणामपरोऽभवत् ।
नमितशिरसो गङ्गालोके तया चरणाहता- ववतु भवतस्त्र्यक्षस्यैतद् विलक्षमवस्थितम् ॥

एषाम्—

यथोत्तरं गुरुः षड्‏भिरुपायैस्तमुपाचरेत् ।
साम्ना भेदेन दानेन नत्युपेक्षारसान्तरैः ॥ ६१ ॥
तत्र प्रियवचः साम भेदस्तत्सख्युपार्जनम् ।
दानं व्याजेन भूषादेः पादयोः पतनं नतिः ॥ ६२ ॥
सामादौ तु परिक्षीणे स्यादुपेक्षावधीरणम् ।
रभसत्रासहर्षादेः कोपभ्रंशो रसान्तरम् ॥ ६३ ॥
कोपचेष्टाश्च नारीणां प्रागेव प्रतिपादिताः ।

तत्र प्रियवचः साम यथा ममैव—

स्मितज्योत्स्नाभिस्ते धवलयति विश्वं मुखशशी दृशस्ते पीयूषद्रवमिव विमुञ्चन्ति परितः ।
वपुस्ते लावण्यं किरति मधुरं दिक्षु तदिदं कुतस्ते पारुष्यं सुतनु हृदयेनाद्य गुणितम् ॥

  1. Gr.MS. gives durmadasya, and M.G.T. and T.MS. read durdamasya.