238 गच्छत्प्रवासो यथामरुशतके—

प्रहरविरतौ मध्ये वाह्नस्तोऽपि परेऽथवा दिनकृति गते वास्तं नाथ त्वमद्य समेष्यसि ।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सबाष्पगलज्जलैः ॥1128

यथा वा तत्रैव—

देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननै- र्यत्नेनापि न यति लोचनपथं कान्तेति जानन्नपि ।
उद्‏ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णे दृशौ तामाशां पथिकस्तथापि किमपि ध्यात्वा चिरं तिष्ठति ॥1129

गतप्रवासो यथा मेघदूते—

उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा ।
तन्त्रोमार्द्रां नयनसलिलैः सारयित्वा कथंचिद् भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥1130
आगच्छदागतयोस्तु प्रवासाभावादेष्यत्प्रवासस्य च गतप्रवासाविशेषात् त्रैविध्यमेव युक्तम् ।

ननु प्रवासस्य न केवलं त्रैविध्यमेवेत्याशङ्क्याह आगच्छदागतयोरिति । एष्यत्प्रवासस्य गतप्रवासाविशेषादिति । एष्यतः प्रवासो हि गतप्रवासान्न विशिष्यते । उभयत्राप्यदर्शनस्य तुल्यत्वादिति ।

द्वितीयः सहसोत्पन्नो दिव्यमानुषविप्लवात् ।

  1. श्ले॰ १२
  2. श्ले॰ ९९
  3. उत्तर॰ श्लो॰ २३