239 उत्पातनिर्घातवातादिजन्यविप्लवात् परचक्रादिजन्यविप्लवाद्वाबुद्धिपूर्वकत्वादेकरूप एव संभ्रमजः प्रवासः । यथोर्वशीपुरूरवसोर्विक्रमोर्वश्याम् । यथा च कपालकुण्डलापहृतायां मालत्यां मालतीमाधवयोः ।

स्वरूपान्यत्वकरणाच्छापजः संनिधावपि ॥ ६६ ॥

यथा कादम्बर्यां वैशम्पायनस्येति ।

1131उपलक्षणं चैतत् । शापजः स्वरूपान्यत्वाकरणेऽपि भवति । यथा शाकुन्तले—

मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये ।
दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः ॥1132

प्रवासचर्या यथा—

हे विप्रयोग दहन ज्वलितो निकामं मां निर्दहनिर्दय प्रियमिदं न हि जीवितं मे ।
एकं मनः परिहराञ्जलिरेष मूर्ध्ना न्यस्तो मया वसति यत्र सरोरुहाक्षी ॥

रक्तस्त्वं नवपल्लवैः इत्यादि । नायिकाया यथा—

उन्मीलन्ति नखैर्लुनीहि वहति क्षौमाञ्चलेनावृणु क्रीडाकाननमाश्रयन्ति वलयक्वाणैः समुत्सारय ।
इत्थं वञ्जुलदक्षिणानिलकुहूकण्ठेषु सांकेतिका व्याहाराः सुभग त्वदीयविरहे तस्याः सखीनां मिथः ॥
नीरागा शशलाञ्छने मुखमपि स्वं नेक्षते दर्पणे त्रस्ता कोकिलकूजितादपि गिरं नोन्मुद्रयत्यात्मनः ।

  1. The portion within brackets which is not found in N.S.P., is found in A.T.A. Bahurūpamiśra also does not give any inkling of this. Of the four verses found here, the second verse unmīlanti nakhair, etc. is also cited in the Sāhityadarpaṇa, as an example for a different purpose. The raktas tvaṃ navapallavaiḥ, etc. is said to be from the Rāmābhyudaya of Yaśovarman and is quoted in the Dhvanyāloka (ad II. 19). I do not know whether the preceding verse he viprayoga-, etc. is also from the Rāmābhyudaya, as it seems possible. The verse nīrāgā, etc. is found in Jalhaṇa’s Sūktimuktāvalī (G.O.S., 82, p. 158). A.T.A. has nīrākā.

  2. ५ । २९