241 नायिका भवेयुः । ईर्ष्यामाने कलहान्तरिता खण्डिता विप्रलब्धा च भवेयुः । प्रवासे तु प्रोषितप्रियेति ।

अथ संभोगः—

अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ ।
दर्शनस्पर्शनादीनि स संभोगो मुदान्वितः ॥ ७० ॥

यथोत्तररामचरिते—

किमपि किमपि मन्दं मन्दमासत्तियोगादविरलितकपोलं जल्पतोरक्रमेण ।
सपुलकपरिरम्भव्यापृतैकैकदोप्णोरविदितगतयामा रात्रिरेव व्यरंसीत् ॥1138

अथवा—

प्रिये, किमेतत्—

विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥1139

यथा च ममैव—

लावण्यामृतवर्षिणि प्रतिदिशं कृष्णागरुश्यामले वर्षाणामिव ते पयोधरभरे तन्वङ्गि दूरोन्नते ।
1140नासावंशमनोज्ञकेतकतरुर्भ्रूपत्रगर्भोल्लस- त्पुष्पश्रीस्तिलकः सहेलमलकैर्भृङ्गैरिवापीयते ॥

चेष्टास्तत्र प्रवर्तन्ते लीलाद्या दश योषिताम् ।
दाक्षिण्यमार्दवप्रेम्णामनुरूपाः प्रियं प्रति ॥ ७१ ॥

  1. १ । २७
  2. उत्तर॰ १ । ३५
  3. N.S.P. -ketakatanur-, etc.