172 लोकयात्रानुगामिनौ लोकस्वभावानुगतत्वाच्च न पृथग्लक्षणमुच्यते । इति818 ।

ननु विभावानुभावयोः स्वरूपमुक्तम् । ज्ञायमानतया रसपोषकारित्वं हि सर्वेषां समानम् । व्यावृत्तं तु लक्षणं किं नोच्यते । तत्राह हेत्विति ।

अथ भावः—

सुखदुःखादिभिर्भावैर्भावस्तद्भावभावनम् ।

अनुकार्याश्रयत्वेनोपनिबध्यमानैः सुखदुःखादिरूपैर्भावैस्तद्भावस्य भावकचेतसो भावनं=वासनं भावः । तदुक्तम्—अहो ह्यनेन रसेन गन्धेन वा सर्वमेतद्भावितं= वासितम् इति819 । यत्तु रसान् भावयन् भावः इति, कवेरन्तर्गतं भावं भावयन् भावः इति820 च, तदभिनयकाव्ययोः प्रवर्तमानस्य भावशब्दस्य प्रवृत्तिनिमित्तकथनमिति । ते च स्थायिनो व्यभिचारिणश्चेति वक्ष्यमाणाः ।

सुखदुःखादिभिरिति । अनुकार्याश्रयत्वेन कविनोपनिबध्यमानैः सुखदुःखादिभिर्भावैः तस्य सामाजिकस्य भावस्य चेतसो यद् भावनं=वासनं स भाव इत्यर्थः । तथैव व्याचष्टे अनुकार्येति । भावशब्दस्य रसान् भावयन् भाव इति कवेरन्तर्गतं भावं भावयन् भाव इति च वदतो वासनावाचित्वं विरुद्धमिव । तत्राह यत्त्विति । ते चेति । ते च भावा इत्यर्थः ।

पृथग्भावा भवन्त्यन्येऽनुभावत्वेऽपि सात्त्विकाः ॥ ४ ॥
सत्त्वादेव समुत्पत्तेस्तच्च तद्भावभावनम् ।

  1. ना॰ शा॰ [GOS. vol. I] पृ॰ ३४८
  2. ना॰ शा॰ [GOS. vol. I] पृ॰ ३४४
  3. ना॰ शा॰ [GOS. vol. I] पृ॰ ३४६