242 ताश्च सोदाहृतयो नायकप्रकाशे दर्शिताः ।

तत्र संभोगशृङ्गारे स्त्रीणां दाक्षिण्यमार्दवप्रेम्णामनुरूपा दशसंख्याश्चेष्टाः प्रवर्तन्त इत्याह तत्रेति । तर्हि ता अपीह वक्तव्याः । नेत्याह ताश्चेति ।

रमयेच्चाटुकृत् कान्तः कलाक्रीडादिभिश्च ताम् ।
न ग्राम्यमाचरेत् किंचिन्नर्म 1141तत्सूचकं न च ॥ ७२ ॥

ग्राम्यः संभोगो रङ्गे निषिद्धोऽपि काव्येऽपि न कर्तव्य इति पुनर्निषिध्यते । यथा रत्नावल्याम्—

स्पृष्टस्त्वयैष दयिते स्मरपूजाव्यापृतेन हस्तेन ।
उद्भिन्नापरमृदुतरकिसलय इव लक्ष्यतेऽशोकः ॥1142
इत्यादि । नायिकानायककैशिकीवृत्तिनाटकनाटिकालक्षणाद्युक्तं कविपरंपरावगतं स्वयमौचित्यसंभावनानुगुण्येनोत्प्रेक्षितं चानुसंदधानः सुकविः शृङ्गारमुपनिबध्नीयात् ।

ननु पूर्वमेव निषिद्धं ग्राम्यं पुनः किं निषिध्यते । तत्राह ग्राम्यः संभोग इति । किमस्ति तत् काव्ये । ओमित्युदाहरणेन दर्शयति यथेति1143 । नायिकाप्रभृतीनामुक्तेऽपि लक्षणे न तन्मात्रेण कविर्निबध्नीयात् । किं तु कविपरंपरामवगम्य स्वयमुचितमेतत् संभावितमेतदिति चावगम्य तदानुगुण्येन शृङ्गारादिरसं निबध्नीयादित्याह नायिकेत्यादि ।

अथ वीरः—

वीरः प्रतापविनयाध्यवसायसत्त्वा- मोहाविषादनयविस्सयविक्रमाद्यैः ।
  1. N.S.P. narmabhraṃśakaraṃ na ca. See the Introduction.

  2. १ । २१
  3. See the Introduction (His comments on an example from the Ratnāvalī) for a discussion connected with this portion.