244 विनयादिभूस्तदुदाहरणेनैव दर्शितप्राय इत्याह विनयादिष्विति । तत्र युद्धवीरे एतावन्तो वीरानुभावा एतावन्तो रौद्रानुभावा इति विविनक्ति प्रस्वेदेति ।

अथ बीभत्सः—

बीभत्सः कृमिपूतिगन्धिवमथुप्रायैर्जुगुप्सैकभू- रुद्वेगी रुधिरान्त्रकीकसवसामांसादिभिः क्षोभणः ।
वैराग्याज्जघनस्तनादिषु 1150घृणाशुद्धोऽनुभावैर्वृतो नासावक्त्रविकूणनादिभिरिहावेगार्तिशङ्कादयः ॥ ७४ ॥

अत्यन्ताहृद्यैः कृमिपूतिगन्धिप्रायविभावैरुद्भावितो जुगुप्सास्थायिभावपरिपोषणलक्षण उद्वेगी बीभत्सः । यथा मालतीमाधवे—

उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोफभूयांसि मांसा- न्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा ।
आर्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का- दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥1151

रुधिरान्त्रवसाकीकसमांसादिविभावितः क्षोभणो बीभत्सः । यथा वीरचरिते—

अन्त्रप्रोतबृहत्कपालनलकक्रूरक्वणत्कङ्कण- प्रायप्रेङ्खितभूरिभूषणरवैराघोषयन्त्यम्बरम् ।
पीतच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लसद्- व्यालोलस्तनभारभैरववपुर्बन्धोद्धतं धावति ॥1152

  1. ‘घृणायुक्तः’ इति पाठः.

  2. ५ । १६
  3. १ । ३५