246 वैरिवैकृताद् यथा वेणीसंहारे—

लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य ।
आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः ॥1157
इत्येवमादिभिर्विभावैः प्रस्वेदरक्तवदननयनाद्यनुभावैरमर्षादिव्यभिचारिभिः क्रोधपरिपोषो रौद्रः परशुरामभीमसेनदुर्योवनादिव्यापारेषु वीरचरितवेणीसंहारादाववगन्तव्यः ।

क्रोध इति । मात्सर्यवैरिवैकृतादिभिः समानेषूत्पन्नः क्रोधस्थायिभावजन्मा चित्तक्षोभाधरदंशनादिभिरनुभावितोऽमर्षप्रभृतिभिर्व्याभिचारिभावैः परं प्रकर्षामागतो रौद्ररसो भवतीत्यर्थः ।

अथ हास्यः—

विकृताकृतिवाग्वेषैरात्मनोऽथ परस्य वा ।
हासः स्यात् परिपोषोऽस्य हास्यस्त्रिप्रकृतिः स्मृतः ॥ ७६ ॥

आत्मस्थान् विकृतवेषभाषादीन् परस्थान् वा विभावानवलम्बमानो हासः, तत्परिपोषात्मा हास्यो रसो द्व्यधिष्ठानो भवति । प्रतिस्वं1158 चोत्तममध्यमाधमप्रकृतिभेदात् षड्विधः ।

विकृताकृतिवाग्वेषैरिति । आत्मनो वा परस्य वा विकृताभिर्वाग्भिः विकृतैर्वेषैश्च जायमानाद्धासादुद्भूतस्त्रिप्रकृतिर्हास्यो रसः स्मृत इत्यर्थः । आत्मपरभेदेन द्विविधकारणजन्मनो हासाज्जायमानतया द्विविधो हास्योऽपि प्रत्येकमुत्तममध्यमाधमभेदेन त्रिविध इत्याह प्रतिस्वं चेति ।

आत्मस्थो यथा रावणः—

जातं मे परुषेण भस्मरजसा तच्चन्दनोद्धूलनं हारो वक्षसि यज्ञसूत्रमुचितं क्लिष्टा जटाः कुन्तलाः ।

  1. १ । ८
  2. N.S.P. sa cottama-, etc.