248 हर्षावेगधृतिप्राया भवन्ति व्यभिचारिणाः ॥ ८० ॥

लोकसीमातिवर्तिपदार्थवर्णनादिविभावितः साधुवादाद्यनुभावपरिपुष्टो विस्मयस्थायिभावो हर्षावेगादिव्यभिचारिभावो रसोऽद्भुतः । यथा—

दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्धत- ष्टङ्कारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः ।
द्राक्पर्याप्तकपालसंपुटमिलद्ब्रह्माण्डभाण्डोदर- भ्राम्यत्पिण्डितचण्डिमा कथमसौ नाद्यापि विश्राम्यति ॥1161
इत्यादि ।

अतिलोकैरिति । अतिलोकपदार्थदर्शनादिजन्मना विस्मयेनोद्भूतः साधुवादादिभिरनुभाविती हर्षावेगादिभिर्व्यभिचारिभिः प्रकृष्टः अद्भुतात्मा रसो भवतीत्यर्थः ।

अथ भयानकः—

विकृतस्वरसत्त्वादेर्भयभावो भयानकः ।
सर्वाङ्गवेपथुस्वेदशोषवैवर्ण्यलक्षणः ।
दैन्यसंभ्रमसंमोहत्रासादिस्तत्सहोदरः ॥ ८१ ॥

रौद्रशब्दश्रवणाद् रौद्रवस्तुदर्शनाच्च भयस्थायिभावप्रभवो भयानको रसः । तत्र सर्वाङ्गवेपथुप्रभृतयोऽनुभावाः । दैन्यादयस्तु व्यभिचारिणः । भयानको यथा प्रागुदाहृतः—

शस्त्रमेतत् समुत्सृज्य कुब्जीभूय शनैः शनैः1162 ।
पथा यथागतेनैव यदि शक्नोषि गम्यताम् ॥

  1. वी॰ च॰ १ । ५४
  2. See Note 278 to Laghuṭīkā.