अथ करुणः—

इष्टनाशादनिष्टाप्तौ शोकात्मा करुणोऽनु तम् ।
निःश्वासोच्छ्वासरुदितस्तम्भप्रलपितादयः ॥ ८२ ॥
तस्यापस्मारदैन्याधिमरणालस्यसंभ्रमाः ।
विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः ॥ ८३ ॥

इष्टस्य बन्धुप्रभृतेर्विनाशादनिष्टस्य तु वधबन्धादेः प्राप्त्या शोकप्रकर्षः करुणः । तमन्विति तदनुभावनिःश्वासादिकथनम् । व्यभिचारिणश्चास्यापस्मारादयः । इष्टनाशात् करुणो यथा कुमारसंभवे—

अयि जीवितनाथ जीवसीत्यभिधायोत्थितया तया पुरः ।
ददृशे पुरुषाकृतिः क्षितौ हरकोपानलमस्म केवलम् ॥1166
इत्यादिरतिप्रलापे । अनिष्टावाप्तेः सागरिकाया बन्धनाद् यथा रत्नावल्याम् ।

250 इष्टनाशादिति । इष्टनाशानिष्टाप्त्यादिजन्मना शोकेन भावितो निःश्वासाद्यनुभावितोऽपस्मारादिभिर्व्यभिचारिभिरनुविद्धः करुणो रसो भवतीत्यर्थः ।

  1. ४।३