174 तांश्च सात्त्विकानुद्दिशति ते चेत्यादिना । तेष्वव्यक्तांशं व्याचष्टे स्तम्भोऽस्मिन्निति ।

वेवइ सेअदवद्दिअरोमंचिअगत्ति ।
सद्दाइ अ वीसरवअणा । बाहुळ्‏ळिअणेत्ति827 होइ ॥
मुहं पेमेण वि ण दिज्जइ सामळीहोइ ।
खणे खणे मुच्छइ828 उठ्ठेहि देहि से दंसणअं ॥
वेपते स्वेदद्रवार्द्रितरोमाञ्चितगात्री ।
शब्दायते च विस्वरवचना बाष्पार्द्रितनेत्रा भवति ॥
मुखं प्रेम्णापि न दीयते श्यामलीभवति ।
क्षणे क्षणे मूर्च्छति829 उत्तिष्ठ देह्यस्मै दर्शनम् ॥
इति । अत्र वेपत इति साध्वसमुच्यते । स्वेदद्रवार्द्रित इति स्वेदः । रोमाञ्चितगात्रीति रोमाञ्चः । शब्दायते च विस्वरवचनेत्यनेन गद्गदः । बाष्पार्द्रनेत्रेति बाष्पः । मुखं प्रेम्णापि न दीयत इति स्तम्भः । श्यामलीभवतीति वैवर्ण्यम् । क्षणे क्षणे मूर्च्छतीत्यनेन प्रलय इति ।

अथ व्यभिचारिणः । तत्र सामान्यलक्षणम्—

विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः ।
स्थायिन्युन्मग्ननिर्मग्राः कल्लोला इव वारिधौ ॥ ७ ॥

यथा वारिधौ सत्येव कल्लोला उद्भवन्ति विलीयन्ते च तद्वदेव रत्यादौ स्थायिनि सत्येवाविर्भावतिरोभावाभ्यामाभिमुख्येन चरन्तो वर्तमाना निर्वेदादयो व्यभिचारिणो भावाः । ते च—

निर्वेदग्लानिशङ्काश्रमधृतिजडताहर्षदैन्यौग्र्यचिन्ता- स्त्रासेर्ष्यामर्षगर्वाः स्मृतिमरणमदाः सुप्तनिद्राविबोधाः
  1. See the Introduction. In the list of words given at the end of Prākṛtavyākaraṇavṛtti of Trivikramadeva, se is also noted in the sense of asya (which is perhaps also of asmai). T.MS. is mainly the basis for the Prakrit verses and the chāyā, where other MSS. show some serious mistakes. A.T.A. (i.e. Avaloka) reads bāhullira which corresponds to bāṣpārdra in Sanskrit.

  2. T.MS. seems to read

    mujhjhañjai.
  3. Only T.MS. seems to read mujjhai in Prakrit and muhyati in chāyā instead of mucchai and mūrchati.