176 वीरशृङ्गारयोर्व्यभिचारी निर्वेदो यथा—

ये बाहवो न युधि वैरकठोरकण्ठपीठोच्छलद्रुधिरराजिविराजितांसाः ।
नापि प्रियापृथुपयोधरपत्रभङ्गसंक्रान्तकुङ्कुमरसाः खलु निष्फलास्ते ॥

आत्मानुरूपं रिपुं रमणीं वालभमानस्य निर्वेदादियमुक्तिः । एवं रसान्तराणामप्यङ्गभाव उदाहार्यः ।

रसानङ्गस्वतन्त्रो निर्वेदो यथा—

कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते ।
वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरणी मार्गस्थितस्यापि मे ॥
विभावानुभावरसाङ्गतदनङ्गभेदादनेकशाखो निर्वेदो निदर्शनीयः ।

एवं निर्वेदमात्रमुक्तम् । इदानीं तस्याङ्गत्वमप्याह वीरेति । क्वचित् तस्य स्वातन्त्र्यमप्यस्तीत्याह रसानङ्गेति । एवं विभावभेदाद्, अनुभावभेदाद्, व्यभिचारिभेदाद्, रसाङ्गत्वाद्, अनङ्गत्वाच्च बहुप्रकारो निर्वेदो निदर्शनीय इत्याह विभावानुभावेति ।

अथ ग्लानिः—

रत्याद्यायासतृट्क्षुद्भिर्ग्लानिर्निष्प्राणतेह च ।
वैवर्ण्यकम्पानुत्साहक्षामाङ्गवचनक्रियाः ॥ १० ॥

निधुवनकलाभ्यासादिश्रमतृट्क्षुद्वमनादिभिर्निप्प्राणतारूपा ग्लानिः । अस्यां च वैवर्ण्यकम्पानुत्साहादयोऽनुभावाः ।