178 अध्वतो यथोत्तररामचरिते—

अलसलुलितमुग्धान्यध्वसंजातखेदा- दशिथिलपरिरम्भैर्दत्तसंवाहनानि ।
परिमृदितमृणालीदुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥835

रतिश्रमो यथा माघे—

प्राप्य मन्मथरसादतिभूमिं दुर्वहस्तनभराः सुरतस्य ।
शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः ॥836
इत्याद्युत्प्रेक्ष्यम् ।

अथ धृतिः—

संतोषो ज्ञानशक्त्यादेर्धृतिरव्यग्रभोगकृत्837 ॥ १२ ॥

ज्ञानाद् यथा भर्तृहरिशतके—

वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या सम इह परितोषो निर्विशेषो विशेषः ।
स तु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ॥838

निर्विशेषा विशेषा839 इति । वल्कलादयो विशेषा न व्यावर्तका इत्यर्थः ।

शक्तितो यथा रत्नावल्याम्—

राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः सम्यक्पालनलालिताः प्रशमिताशेषोपसर्गाः प्रजाः ।

  1. १।२४
  2. १०।८०
  3. A.T.A. bhāvakṛt.

  4. वैराग्य॰ श्लो॰ ५३
  5. The pratīka is thus given in plural in all MSS. and not as nirviśeṣo viśeṣaḥ.