180 अथ हर्षः—

प्रसत्तिरुत्सवादिभ्यो हर्षोऽश्रुस्वेदगद्गदाः ।

प्रियागमनपुत्रजननोत्सवादिविभावैश्चेतःप्रसादः=हर्षः । तत्र चाश्रुस्वेदगद्गदादयोऽनुभावाः । यथा—

आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लङ्घ्यतां गेहिन्या परितोषवाष्पकलिलामासज्य दृष्टिं मुखे ।
दत्त्वा पीलुशमीकरीरकवलान् स्वेनाञ्चलेनादरा- दुन्मृष्टं करभस्य केसरसटाभाराग्रलग्नं रजः ॥845
निवर्देवदितरदुन्नेयम् ।

अथ दैन्यम्—

दौर्गत्याद्यैरनौजस्यं दैन्यं कार्ष्ण्यामृजादिमत् ॥ १४ ॥

दारिद्र्यन्यक्कारादिविभावैरनोजस्कता चेतसः=दैन्यम् । तत्र च कृष्णतामलिनवसनदर्शनादयोऽनुभावाः । यथा—

वृद्धोऽन्धः पतिरेष मञ्चकगतः स्थूणावशेषं गृहं कालोऽभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो ।
यत्नात् संचिततैलबिन्दुघटिका भग्नेति पर्याकुला दृष्ट्वा गर्भभरालसां सुतबधूं श्वश्रूश्चिरं रोदिति ॥
शेषं पूर्ववत् ।

  1. अमरु॰ श्लो॰ ७७