167 क्रमप्राप्तमपि 791पूर्वं रसवचनमतिलङ्घ्य नाटकादिषु वस्तुनेतृरसानामुपयोगः प्रतिपादितः । अथेदानीं तत्परिसमाप्तौ लब्धावसरतया स एव रसभेदः प्रतिपाद्यत इत्याह अथेति । वक्ष्यमाणस्वभावैरिति । वक्ष्यते हि विभावादीनां स्वभावः । तमिदानीं सिद्धं कृत्वा रसेषु तेषां कश्चित् प्रकारः कथ्यत इति । काव्योपात्तैरिति । द्विविधो हि प्रबन्धः श्राव्योऽभिनेयश्च तत्र श्राव्यापेक्षया । श्रोतॄणामिति अभिनेयापेक्षया च प्रेक्षकाणामिति । स्वादगोचरतामिति । स्वाद्यो हि स्वादुर्भवति । स्वादश्च आत्मानन्दाभिव्यक्तिः । वक्ष्यति हि ‘स्वादः काव्याथसंभेदादात्मानन्दसमुद्भवः’ इति 792 । ततश्च विभावादिभिः स्थायिभावो रत्यादिः स्वादगोचरताम् आनन्दरूपतामानीयते । तेनासौ स्वादुर्भवति । स्थायित्वं च भावस्य प्रत्ययविशेषात्मनः संस्कारद्वारेणेति ।

  1. T.MS. reads kramaprāptaṃ pūrvaṃ rasam atilaṅghya. All other MSS. have rasavacanam. Gr.MS. is corrupt in other expressions here.

  2. (४।४३)