183
ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा मनस्विन्या रोषप्रणयरभसाद् गद्गदगिरा ।
अहो चित्रं चित्रं स्फुटमिति निगद्याश्रुकलुषं रुषा ब्रह्मास्त्रं मे शिरसि निहितो वामचरणः ॥849

पुरस्तन्व्या इत्यादि । पुनरवयवैरिति । या पूर्वं नामतो ज्ञाता सैवावयवैर्यथा व्यक्तिं गता भवति तथेत्यर्थः । स्फुटमिति । भवतो हृदयगतमखिलं स्फुटमित्यर्थः ।

अथामर्षः—

अधिक्षेपापमानादेरमर्षोऽभिनिविष्टता ।
850तत्र स्वेदशिरःकम्पतर्जनाताडनादयः ॥ १८ ॥

यथा वीरचरिते—

प्रायश्चित्तं चरिप्यामि पूज्यानां वो व्यतिक्रमात् ।
न त्वेव दूषयिष्यामि शस्त्रग्रहमहाव्रतम् ॥851

यथा वा वेणीसंहारे—

युष्मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि ।
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा- नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव ॥852

अथ गर्वः—

गर्वोऽभिजनलावण्यबलैश्वर्यादिभिर्मदः ।
कर्माण्याधर्षणावज्ञा सविलासाङ्गवीक्षणम् ॥ १९ ॥

  1. श्लो॰ ५१-५२
  2. A.T.A. reads: svedo ’tra tāḍanaṃ kampaḥ śironirdhūnanāni ca.

  3. ३।८
  4. १।१२