अथ सुप्तम्—

सुप्तं निद्रोद्भवं तत्र श्वासोच्छ्वासक्रिया परम् ॥ २२ ॥

यथा—

लवुनि तृणकुटीरे क्षेत्रकोणे यवानां नवकलमपलालस्रस्तरे सोपधाने ।
परिहरति सुषुप्तं हालिकद्वन्द्वमारात् कुचकलशमहोष्माबद्धरेखस्तुषारः ॥

परिहरतीति । सुप्तं सुषुप्तिः । कुचकलशमहोष्मेति । कुच- कालशयोरूष्मणा निरस्तस्तुषारो बहिर्मण्डलाकारः स्थित इत्यर्थः ।