186 मरणावचनस्य हेतुमुक्त्वा शृङ्गारे मरणव्यवसायमात्रं निबन्धनीयम्, अन्यत्र वीरादौ मरणस्यैव निबन्धनेऽपि न दोष इत्याह शृङ्गाराश्रयत्वेनेति863 ।

अथ मदः—

हर्षोत्कर्षो मदः पानात् स्खलदङ्गवचोगतिः ॥ २१ ॥
निद्रा हासोऽत्र रुदितं ज्येष्ठमध्याधमादिषु ।

यथा माघे—

भावहारि हसितं वचनानां कौशलं दृशि विकारविशेषाः ।
चक्रिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन ॥864
इत्यादि ।

ज्येष्ठमध्यमाधमेषु क्रमशो निद्राहासरुदितान्युक्त्वा मध्यममुदाहरति भावहारीति865 ।

अथ सुप्तम्—

सुप्तं निद्रोद्भवं तत्र श्वासोच्छ्वासक्रिया परम् ॥ २२ ॥

यथा—

लवुनि तृणकुटीरे क्षेत्रकोणे यवानां नवकलमपलालस्रस्तरे सोपधाने ।
परिहरति सुषुप्तं हालिकद्वन्द्वमारात् कुचकलशमहोष्माबद्धरेखस्तुषारः ॥

परिहरतीति । सुप्तं सुषुप्तिः । कुचकलशमहोष्मेति । कुच- कालशयोरूष्मणा निरस्तस्तुषारो बहिर्मण्डलाकारः स्थित इत्यर्थः ।

  1. The reading of the Avaloka in N.S.P. is śṛṅgārārayālambanatvena, which does not seem to be correct according to Bh.Nṛ.

  2. १०।१३
  3. In the printed editions of the Śiśupālavadha (X.13) the reading is hāvahāri, and also according to Mallinātha. But Bh.Nṛ.’s pratīka in all the MSS. is bhāvahāri.