के पुनस्ते संधयः—

मुखप्रतिमुखे गर्भः सावमर्शोपसंहृतिः ।

यथोद्देशं लक्षणमाह—

मुखं बीजसमुत्पत्तिर्नानार्थरससंभवा151 ॥ २४ ॥
20
अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् ।

बीजानां समुत्पत्तिरनेकप्रकारप्रयोजनस्य रसस्य हेतुर्मुखसंधिरिति व्याख्येयम् । तेनात्रिवर्गफले प्रहसनादौ रसोत्पत्तिहेतोरेव बीजत्वमिति । अस्य च बीजारम्भार्थयुक्तानि द्वादशाङ्गानि भवन्ति ।

बीजानां समुत्पत्तिरिति । सूत्रे नानाविधस्यार्थस्य रसस्य च मुखसंधिप्रयोजकत्वमिति प्रतिभाति । तदव्यापित्वादयुक्तम् । तेन तत् सूत्रं नानाविधप्रयोजनस्य रसस्य हेतुर्मुखसंधिरिति रसमात्रस्यैव मुखसंधिप्रयोजकत्वकथनपरतया व्याख्येयम् । तथा व्याख्याने व्यापकत्वं भवतीत्याह तेनेति । तेन व्याख्यानेन अर्थेन=त्रिवर्गेण शून्ये प्रहसनादावपि मुखसंधिलक्षणं व्यापकं भवति । न हि मुखनिर्वहणसंधिशून्यमितिवृत्तं नाम भवति । बीजारम्भार्थयुक्तानीति । बीजेन, आरम्भेण, अर्थेन = प्रयोजनेन च संबद्धानीत्यर्थः ।

  1. ‘संश्रया’ इति पाठः.