20
अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् ।

बीजानां समुत्पत्तिरनेकप्रकारप्रयोजनस्य रसस्य हेतुर्मुखसंधिरिति व्याख्येयम् । तेनात्रिवर्गफले प्रहसनादौ रसोत्पत्तिहेतोरेव बीजत्वमिति । अस्य च बीजारम्भार्थयुक्तानि द्वादशाङ्गानि भवन्ति ।

बीजानां समुत्पत्तिरिति । सूत्रे नानाविधस्यार्थस्य रसस्य च मुखसंधिप्रयोजकत्वमिति प्रतिभाति । तदव्यापित्वादयुक्तम् । तेन तत् सूत्रं नानाविधप्रयोजनस्य रसस्य हेतुर्मुखसंधिरिति रसमात्रस्यैव मुखसंधिप्रयोजकत्वकथनपरतया व्याख्येयम् । तथा व्याख्याने व्यापकत्वं भवतीत्याह तेनेति । तेन व्याख्यानेन अर्थेन=त्रिवर्गेण शून्ये प्रहसनादावपि मुखसंधिलक्षणं व्यापकं भवति । न हि मुखनिर्वहणसंधिशून्यमितिवृत्तं नाम भवति । बीजारम्भार्थयुक्तानीति । बीजेन, आरम्भेण, अर्थेन = प्रयोजनेन च संबद्धानीत्यर्थः ।

तान्याह—

उपक्षेपः परिकरः परिन्यासो विलोभनम् ॥ २५ ॥
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।
उद्भेदभेदकरणान्यन्वर्थान्यथ लक्षणम् ॥ २६ ॥

एतेषां स्वसंज्ञाव्याख्यातानामपि सुखार्थं लक्षणं क्रियते—

बीजन्यास उपक्षेपस्

यथा रत्नावल्याम्—

नेपथ्ये
द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् ।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥152

  1. १।७