21 इत्यादिना यौगंधरायणो वत्सराजस्य सत्नावलीप्राप्तिहेतुभूतमनुकूलदैवं स्वव्यापारं बीजत्वेनोपक्षिप्तवानित्युपक्षेपः ।

परिकरमाह—

तद्बाहुल्यं परिक्रिया ।

यथा तत्रैव—

अन्यथा क्व सिद्धादेशप्रत्ययप्रार्थितायाः सिंहलेश्वरदुहितुः समुद्रे प्रवहणभङ्गमग्नोत्थितायाः फलकासादनम् ।

इत्यादिना

सर्वथा स्पृशन्ति स्वामिनमभ्युदयाः153

इत्यन्तेन बीजोत्पत्तैरेव बहुकरणात् परिकरः ।

परिन्यासमाह—

तन्निष्पत्तिः परिन्यासो

यथा तत्रैव—

प्रारम्भेऽस्मिन् स्वामिनो वृद्धिहेतौ दैवे चेत्थं दत्तहस्तावलभ्बे ।
सिद्धेर्भ्रान्तिर्नास्ति सत्यं तथापि स्वेच्छाकारी भीत एवास्मि भर्तुः ॥154
इत्यनेन यौगंधरायणः स्वव्यापारस्य दैवयोगात्155 निष्पत्तिमुक्तवानिति परिन्यासः ।

विलोभनमाह—

गुणाख्यानाद् विलोभनम् ॥ २७ ॥

यथा रत्नावल्याम्—

अस्तापास्तसमस्तभासि नभसः पारं प्रयाते रवा- वास्थानीं समये समं नृपजनः सायंतने संपतन् ।
संप्रत्येष सरोरुहद्युतिमुषः पादांस्तवासेवितुं प्रीत्युत्कर्षकृतो 156दृशामुदयनस्येन्दोरिवोद्वीक्षते ॥157

  1. पृ॰ १२
  2. रत्ना॰ १।८
  3. N.S.P. svavyāpāradaivayor niṣpattim, etc.

  4. A.T.A. diśām.

  5. १।२४