3 ताण्डवे पुष्करवद् भवतीत्येवंरूपा भवति । 22अर्थान्तरप्रतीतौ सत्यां हि उपमान्तरम् । तेनाह नीलकण्ठस्येति । द्वितीये तु श्लोके पूर्ण एव श्लेषोऽलंकारः । तथा व्याचष्टे दशरूपानुकारेणेति । एकत्रेति । अयं च श्लोकार्थः । यस्य दशरूपाणां दशावताराणामनुकारेण प्रतिमारूपेण23 ध्यातारो माद्यन्ति, यस्य च मुनेर्दशरूपप्रणीतेन नाटकाद्यनुकारेण सामाजिका माद्यन्ति, सर्वविदे तस्मै विष्णवे = हरये, भरताय च नम इति24 ।

श्रोतुः प्रवृत्तिनिमित्तं 25दर्शयति—

कस्यचिदेव कदाचिद् दयया विषयं सरस्वती विदुषः ।
घटयति कमपि तमन्यो व्रजति जनो येन वैदग्धीम् ॥ ३ ॥

तं कंचिद्विषयं प्रकरणादिरूपं 26कस्यचिदेव कवेः कदाचित् सरस्वती योजयति । येन प्रकरणादिना 27विषयेणान्योऽपि जनो विदग्धो भवति ।

उत्तरश्लोकस्यास्फुटविवक्षितार्थतां28 मन्यमान आह29 श्रोतुः प्रवृत्तिनिमित्तं दर्शयतीति । श्रोतुः प्रवृत्तिः श्रवणम् । तस्योद्देश्यतया निमित्तं = प्रयोजनम् । तद् दर्शयतीति श्रोतृप्रवृत्त्यङ्गं प्रकरणस्य प्रयोजनं दर्शयतीत्यर्थः । कस्यचिदेवेति श्लोकस्यायमर्थः । कस्यचिदेव विदुषः कदाचिदेव सरस्वती तं कमपि प्रकरणादिरूपं निर्माणविषयं योजयति येनान्योऽपि जनो व्यावृत्तदशरूपज्ञानात्मिकां वैदग्धीं भजत इति । अस्य प्रकरणस्य दशरूपज्ञानं फलमित्यर्थः । तथा व्याचष्टे कस्यचिदेवेति । घटयतीत्यर्थान्तरस्यापि संभवात् संबन्धार्थतामाह योजयतीति ।

30स्वप्रवृत्तेर्विषयं दर्शयति—

उद्वृत्योद्धृत्य सारं यमखिलनिगमान्नाट्यवेदं विरिञ्चि- श्चक्रे यस्य प्रयोगं मुनिरपि भरतस्ताण्डवं नीलकण्ठः ।
  1. This sentence is missing in Tri.MS.

  2. Tri.MS. reads pratimāropeṇa.

  3. Only Tri.MS. reads bharatāya ceti nama iti.

  4. N.S.P. pradarśyate.

  5. N.S.P. kadācid eva kasyacid eva kaveḥ, etc.

  6. N.S.P. viṣayeṇānyo jano, etc.

  7. Tri. MS. reads uttaraślokasya asphuṭaṃ vivakṣitārthaṃ manyamānaḥ, whereas M.G.T. gives it as asphuṭavivakṣitārtham.

  8. Only T.MS. gives on the margin śrotṛpravṛttītyādi.

  9. N.S.P. svapravṛttiviṣayaṃ.