22 इति वैतालिकमुखेन चन्द्रतुल्यवत्सराजगुणवर्णनया सागरिकायाः समागमहेत्वनुरागबीजानुगुण्येनैव विलोभनाद् विलोभनमिति ।

यथा च वेणीसंहारे—

मन्थायस्तार्णवाम्भः प्लुतकुहरवलन्मन्दरध्वानधीरः158 कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्टचण्डः ।
कृष्णाक्रोधाग्रदूतः 159 कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ॥160
इत्यादिना यशोदुन्दुभिः161 इत्यन्तेन द्रौपद्या विलोभनाद् विलोभनमिति ।

अथ युक्तिः—

संप्रधारणमर्थानां युक्तिः

यथा रत्नावल्याम्—

मया पि चैनां देवीहस्ते सबहुमानं निक्षिपता युक्तमेवानुष्ठितम् । कथितं च मया यथा बाभ्रव्यः कञ्चुकी सिंहलेश्वरामात्येन वसुभूतिना सह कथंकथमपि समुद्रादुत्तीर्य कोशलोच्छित्तये गतेन162 रुमण्वता घटितः ।163

इत्यनेन सागरिकाया अन्तः पुरस्थाया वत्सराजस्य सुखेन दर्शनादिप्रयोजनावधारणाद् बाभ्रव्यसिंहलेश्वरामात्ययोश्च164 नायकसमागमहेतुत्वेनावधारणाद् युक्तिरिति ।

अथ प्राप्तिः—

प्राप्तिः सुखागमः ।
  1. A.T.A. -pratikuhara-, etc.

  2. A.T.A. kuruśata and nirghātapātaḥ.

  3. १।२२
  4. १।२५
  5. N.S.P. gatasya rumaṇvato.

  6. पृ॰ १२
  7. N.S.P. -amātyayoḥ … hetuprayojanatvena.