अथ विधानम्—

विधानं सुखदुःखकृत् ॥ २८ ॥

25 यथा मालतीमाधवे प्रथमेऽङ्के—

माधवः
185यान्त्या मुहुर्वलितकंधरमाननं त- दावृत्तवृन्तशतपत्रनिभं वहन्त्या ।
दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥
यद्विस्मयस्तिमितमस्तमितान्यभावमानन्दमन्दममृतप्लवनादिवाभूत् ।
तत्संनिधौ तदधुना हृदयं मदीयमङ्गारचुम्बितमिव व्यथमानमास्ते ॥186
इत्यनेन मालत्यवलोकनस्यानुरागस्य समागमहेतोर्बीजानुगुण्येनैव माधवस्य सुखदुःखकारित्वाद् विधानमिति ।

यथा च वेणीसंहारे—

द्रौपदी

187णाध, पुणोवि तुम्मेहिं अहं आअच्छिअ समासासिदव्वा ।

भीमः

ननु पाञ्चालराजतनये, किमद्याप्यलीकाश्वासनया ।

भूयः 188परिभवक्लान्तिलज्जाविधुरिताननम् ।
अनिः शेषितकौरव्यं न पश्यसि वृकोदरम् ॥189
इति संग्रामस्य सुखदुःखहेतुत्वाद् विधानमिति ।

  1. A.T.A. omits the verse yāntyā muhur valita-, etc.

  2. १।३२
  3. ‘नाथ, पुनरपि त्वयाहमागत्य समाश्वासयितव्या ।’ इति च्छाया.

  4. A.T.A. -paribhavakṣānti.

  5. १।२६