24 वासवदत्ता
निरूप्यात्मगतम्

176अहो पमादो परिअणस्स । जस्स एव्व दंसणपहादो पअत्तेण रक्खीअदि तस्स177 एव्व अज्ज कहं दिट्‏ठिगोअरं आअदा । भोदु । एव्वं दाव ।

प्रकाशम्
हञ्जे सागरिए, 178पूजोवअरणं कंचणमालाहत्थे समप्पेहि । कीस तुमं अज्ज पराहीणे परिअणे मअणूसवे179 सारिअं उज्झिअ इहागदा । ता तहिं एव्व गच्छ ।180

इत्युपक्रमे,
सागरिका
स्वगतम्

181सारिआ दाव मए सुसंगदाए हत्थे समप्पिदा । पेक्खिदुं च मे कुतूहलं । ता अलक्खिआ पेक्खिस्सं ।

इत्यनेन वासवदत्ताया रत्नावलीवत्सराजयोर्दर्शनप्रतीकारात् सारिकायाः 182सुसंगताया हस्ते समर्पणेनालक्षितप्रेक्षणेन च वत्सराजसमागमहेतोर्बीजस्योपादानात् समाधानमिति ।

यथा च वेणीसंहारे—

भीमः

भवति पाञ्चालराजतनये, 183श्रूयतामचिरेणैव कालेन—

चञ्चद्भुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य ।
स्त्यानावनद्धघनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि भीमः ॥184
इत्यनेन वेणीसंहारहेतोः क्रोधबीजस्य पुनरुपादानात् समाधानम् ।

अथ विधानम्—

विधानं सुखदुःखकृत् ॥ २८ ॥

  1. ‘अहो प्रमादः परिजनस्य । यस्यैव दर्शनपथात् प्रयत्नेन रक्ष्यते तस्यैव अद्य कथं दृष्टिगोचरमागता । भवतु । एवं तावत् । चेटि सागरिके, पूजोपकरणं काञ्चनमालाहस्ते समर्पय । कथं त्वमद्य पराधीने परिजने मदनोत्सवे सारिकां मुक्त्वेहागता । तस्मात् तत्रैव गच्छ।’ इति च्छाया.

  2. N.S.P. tassa jjeva.

  3. pūjovaaraṇaṃ kaṃcaṇamālāhatthe samappehi is missing in N.S.P.

  4. N.S.P. sāriaṃ mottūṇa, etc.

  5. पृ॰ ३२
  6. ‘सारिका तावन्मया सुसंगताया हस्ते समर्पिता । प्रेक्षितुं च मे कुतूहलम् । तदलक्षिता प्रेक्षिष्ये ।’ इति च्छाया.

  7. N.S.P. susaṃgatārpaṇena, etc.

  8. A.T.A. śrūyatām ayam, etc.

  9. १।२१