25 यथा मालतीमाधवे प्रथमेऽङ्के—

माधवः
185यान्त्या मुहुर्वलितकंधरमाननं त- दावृत्तवृन्तशतपत्रनिभं वहन्त्या ।
दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥
यद्विस्मयस्तिमितमस्तमितान्यभावमानन्दमन्दममृतप्लवनादिवाभूत् ।
तत्संनिधौ तदधुना हृदयं मदीयमङ्गारचुम्बितमिव व्यथमानमास्ते ॥186
इत्यनेन मालत्यवलोकनस्यानुरागस्य समागमहेतोर्बीजानुगुण्येनैव माधवस्य सुखदुःखकारित्वाद् विधानमिति ।

यथा च वेणीसंहारे—

द्रौपदी

187णाध, पुणोवि तुम्मेहिं अहं आअच्छिअ समासासिदव्वा ।

भीमः

ननु पाञ्चालराजतनये, किमद्याप्यलीकाश्वासनया ।

भूयः 188परिभवक्लान्तिलज्जाविधुरिताननम् ।
अनिः शेषितकौरव्यं न पश्यसि वृकोदरम् ॥189
इति संग्रामस्य सुखदुःखहेतुत्वाद् विधानमिति ।

अथ परिभावना—

परिभावोऽद्भुतावेशः190

यथा रत्नावल्याम्—

सागरिका
दृष्ट्वा सविस्मयम्

191कधं पच्चक्खो एव्व भयवं अणंगो पूअं पडिच्छदि । अम्हाणं तादस्स

  1. A.T.A. omits the verse yāntyā muhur valita-, etc.

  2. १।३२
  3. ‘नाथ, पुनरपि त्वयाहमागत्य समाश्वासयितव्या ।’ इति च्छाया.

  4. A.T.A. -paribhavakṣānti.

  5. १।२६
  6. A.T.A. reads: adbhutāvedhaḥ, rasāvedhaḥ, and rasāvedhād.

  7. ‘कथं प्रत्यक्ष एव भगवाननङ्गः पूजां प्रतीच्छति । अस्माकं तातस्य गृहे चित्रगत एव । अहमपीहास्थितैवैनं पूजयिष्यामि ।’ इति च्छाया.