26 अंतेउरे चित्तगदो एव्व । अहंपि इव ट्‏ठिदा एव्व णं पूजइस्सं ।192

इत्यनेन वत्सराजस्यानङ्गरूपतयापह्नवादनङ्गस्य च प्रत्यक्षस्य पूजाग्रहणस्य लोकोत्तरत्वादद्भुतरसावेशः परिभावना ।

यथा च वेणीसंहारे—

द्रौपदी

193किं दाणिं एसो पलअजलधरत्थणिदमंसलो खणे खणे समरदुंदुभी ताडीअदि त्ति ।194

इति लोकोत्तरसमरदुन्दुभिध्वनेर्विस्मयरसावेशाद् द्रौपद्याः परिभावना ।

अथोद्भेदः—

अद्भेदो गूढभेदनम् ।

यथा रत्नावल्यां वत्सराजस्य कुसुमायुधव्यपदेशगूढस्य वैतालिकवचसा अस्तापास्त—195 इत्यादिना उदयनस्य— इत्यन्तेन बीजानुगुण्येनैवोद्भेदनादुद्भेदः ।

यथा च वेणीसंहारे— आर्य, किमिदानीमध्यवस्यति गुरुः । इत्युपक्रमे

नेपथ्ये
यत् सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं यद् विस्मर्तुमपीहितं शमवता शान्तिं कुलस्येच्छता ।
तद् द्यूतारणिसंभृतं 196नृपवधूकेशाम्बराकर्षणैः क्रोधज्योतिरिदं महत् कुरुवने यौधिष्ठिरं जृम्भते ॥197
भीमः
श्रुत्वा सहर्षम्

जृम्भतां जृम्भतां संप्रत्यप्रतिहतप्रसरमार्यस्य198 क्रोधज्योतिः ।199

इत्यनेन छन्नस्य द्रौपदीकेशसंयमनहेतोर्युधिष्ठिरक्रोधबीजस्योद्भेदादुद्भेदः ।

  1. पृ॰ ३७
  2. ‘किमिदानीमेप प्रलयजलधरस्तनितमांसलः क्षणे क्षणे समरदुन्दुभिस्ताड्यते ।’ इति च्छाया.

  3. पृ॰ ३०
  4. १।२४
  5. N.S.P. nṛpasutā-.

  6. १।२४
  7. N.S.P. omits prasaram, and reads in the remark as krodhasyodbhedaḥ.

  8. पृ॰ २९