अथ साङ्गं प्रतिमुखसंधिमाह—

लक्ष्यालक्ष्य214 इवोद्भेदस्तस्य प्रतिमुखं भवेत् ।
215बिन्दुप्रयत्नानुगमादङ्गान्यस्य त्रयोदश ॥ ३० ॥

तस्य बीजस्य किंचिल्लक्ष्यः किंचिदलक्ष्य इवोद्भेदः प्रकाशनं तत् प्रतिमुखम् । यथा रत्नावल्यां द्वितीयेऽङ्के वत्सराजसागरिकासमागमहेतोरनुरागबीजस्य प्रथमाङ्कोपक्षिप्तस्य सुसंगताविदूषकाभ्यां ज्ञायमानतया किंचिल्लक्ष्यस्य वासवदत्तया च चित्रफलकवृत्तान्तेन किंचिदुन्नीयमानस्य दृश्यादृश्यरूपतयोद्भेदः प्रतिमुखसंधिरिति ।

वेणीसंहारेऽपि द्वितीयेऽङ्के216 भीष्मादिवधेन किंचिल्लक्ष्यस्य कर्णाद्यवधाच्चालक्ष्यस्य क्रोधबीजस्योद्भेदः ।

सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् ।
स्वबलेन निहन्ति संयुगे न चिरात् पाण्डुसुतः सुयोधनम् ॥
इत्यादिभिः
दुःशासनस्य हृदयक्षतजाम्बुपाने दुर्योधनस्य च यथा गदयोरुभङ्गे ।
तेजस्विनां समरमूर्धनि पाण्डवानां ज्ञेया जयद्रथवधेऽपि तथा प्रतिज्ञा ॥217
29 इत्येवमादिभिश्च 218बलवतां पाण्डवानां वासुदेवसहायानां संग्रामलक्षणस्य बिन्दुभेदस्योद्भेदः प्रतिमुखसंधिरिति ।

  1. N.S.P. lakṣyālakṣyatayodbhedaḥ.

  2. A.T.A. -prayatnābhigamād.

  3. २।५
  4. वे॰ सं॰ २।२८
  5. N.S.P. omits balavatām, etc. up to bindubhedasya.