यथोद्देशं लक्षणमाह—

221रत्यर्थेहा विलासः स्याद्

यथा रत्नावल्याम्—

सागरिका

222हिअअ, पसीद । किं इमिणा आआसमेत्तफलेण दुल्लहजणप्पत्थणाणुबन्धेण ।

इत्युपक्रम्य,—

223तहावि224 तस्त णत्थि अण्णो दंसणोवाओ त्ति आलेक्खगदं त्तं जणं कदुअ जधासमीहिदं करिस्सं ।

इत्येतैर्वत्सराजसमागमरतिं चित्रादिजन्यामप्युद्दिश्य सागरिकायाश्चेष्टाप्रयत्नोऽनुरागबीजानुगतो विलास इति ।

  1. ‘रत्युत्थेहा’ इति पाठः.

  2. ‘हृदय, प्रसीद प्रसीद । किमनेनायासमात्रफलेन दुर्लभजनप्रार्थनानुबन्धेन ।’ इति च्छाया.

  3. ‘तथापि तस्य नास्त्यन्यो दर्शनोपाय इति आलेख्यगतं तं जनं कृत्वा यथासमीहितं करिष्यामि ।’ इति च्छाया.

  4. In N.S.P. the order in this line is slightly different.