29 इत्येवमादिभिश्च 218बलवतां पाण्डवानां वासुदेवसहायानां संग्रामलक्षणस्य बिन्दुभेदस्योद्भेदः प्रतिमुखसंधिरिति ।

अस्य च पूर्वाङ्कोपक्षिप्तबिन्दुरूपबीजप्रयत्नार्थानुगतानि त्रयोदशाङ्गानि भवन्ति । तान्याह—

विलासः परिसर्पश्च विधूतं शमनर्मणी ।
नर्मद्युतिः 219प्रगमनं निरोधः पर्युपासनम् ॥ ३१ ॥
220वज्रं पुष्पमुपन्यासो वर्णसंहार इत्यपि ।

यथोद्देशं लक्षणमाह—

221रत्यर्थेहा विलासः स्याद्

यथा रत्नावल्याम्—

सागरिका

222हिअअ, पसीद । किं इमिणा आआसमेत्तफलेण दुल्लहजणप्पत्थणाणुबन्धेण ।

इत्युपक्रम्य,—

223तहावि224 तस्त णत्थि अण्णो दंसणोवाओ त्ति आलेक्खगदं त्तं जणं कदुअ जधासमीहिदं करिस्सं ।

इत्येतैर्वत्सराजसमागमरतिं चित्रादिजन्यामप्युद्दिश्य सागरिकायाश्चेष्टाप्रयत्नोऽनुरागबीजानुगतो विलास इति ।

अथ परिसर्पः—

दृष्टनष्टानुसर्पणम् ॥ ३२ ॥
  1. N.S.P. omits balavatām, etc. up to bindubhedasya.

  2. ‘प्रगयणम्’ इति पाठः.

  3. A.T.A. puṣpaṃ vajram.

  4. ‘रत्युत्थेहा’ इति पाठः.

  5. ‘हृदय, प्रसीद प्रसीद । किमनेनायासमात्रफलेन दुर्लभजनप्रार्थनानुबन्धेन ।’ इति च्छाया.

  6. ‘तथापि तस्य नास्त्यन्यो दर्शनोपाय इति आलेख्यगतं तं जनं कृत्वा यथासमीहितं करिष्यामि ।’ इति च्छाया.

  7. In N.S.P. the order in this line is slightly different.