30
परिसर्पो

यथा वेणीसंहारे 225

कञ्चुकी

योऽयमुद्यतेषु बलवत्सु, अथवा किं बलवत्सु, वासुदेवसहायेष्वरिप्वद्याप्यन्तः पुरसुखमनुभवति । इदमपरमयथातथं स्वामिनश्चेष्टितम्226

आशस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने- स्तापायास्य न पाण्डुसूनुभिरयं भीष्मः शरैः शायितः ।
प्रौढानेकधनुर्धरारिविजयश्रान्तस्य चैकाकिनो बालस्यायभरातिलूनधनुषः प्रीतोऽभिमन्योर्वधात् ॥
इति 227भीष्मादिवधेन दृष्टस्य कर्णाद्यवधाच्च अदृष्टस्य बलवतां वासुदेवसहायानां पाण्डवानां संग्रामलक्षणबिन्दुरूपविजयप्रयत्नान्वयेन । कञ्चुकिमुखेनानुसर्पणं परिसर्प इति ।

यथा च 228रत्नावल्यां सारिकावचनचित्रदर्शनाभ्यां सागरिकानुरागबीजस्य दृष्टनष्टस्य क्वासौ क्वासौ इत्यादिना वत्सराजेनानुसरणात् परिसर्प इति ।

अथ विधूतम्—

विधूतं स्यादरतिस्

यथा रत्नावल्याम्—

सागरिका

229सहि, अहिअं मे संतावो बाधेदि ।

सुसंगत दीर्घिकातो नलिनीदलानि मृणालिकाश्चानीयास्या अङ्गे ददाति
सागरिका
तानि क्षिपन्ती

230सहि, अवणेहि एदाइं । किं अआरणे अत्ताणं आयासेसि ? णं भणामि—

  1. २।२
  2. N.S.P. omits ceṣṭitam.

  3. N.S.P. reads ity anena bhīṣmādivadhe dṛṣṭasya abhimanyuvadhān naṣṭasya balavatāṃ pāṇḍavānāṃ vāsudevasahāyānāṃ saṃgrāmalakṣaṇabindubījaprayatnānvayena kañcukimukhe bījānusarpaṇaṃ parisarpa iti.

  4. This line is missing in A.T.A.

  5. ‘सखि, अधिकं मे संतापो बाधते ।’ इति च्छाया.

  6. ‘सखि, अपनयैतानि । किमकारण आत्मानमायासयसि ? ननु भणामि—दुर्लभजनानुरागो लज्जा गुर्वी परवश आत्मा । प्रियसखि विषमं प्रेम मरणं शरणं केवलमेकम् ॥’ इति च्छाया.