32 यथा च वेणीसंहारे—

दुर्योधनश्चेटीहस्तादर्घपात्रमादाय245 देव्याः समर्पयति । पुनः
भानुमती
अर्घं दत्वा

246हला, उवणेहि मे कुसुमाइं जाव अवराणं वि देवाणं सवरिअं णिवत्तेमि

हस्तौ प्रसारयति । दुर्योधनः पुष्पाण्युपनयति । भानुमत्यास्तत्स्पर्शजातकम्पाया हस्तात् पुष्पाणि पतन्ति
247
248इत्यनेन नर्मणा दुःस्वप्नदर्शनोपशमार्थं देवतापूजाविघ्नकारिणा बीजोद्धाटनात् परिहासस्य प्रतिमुखाङ्गत्वं युक्तमिति ।

ननु बीजाद्यन्वितं खल्वङ्गं भवति । इह च युधिष्ठिरोत्साहः द्रौपदीकेशसंयमनलक्षणस्य कार्यस्य बीजम् । न च भानुमतीदुःस्वप्नशान्तिपरिकरपुष्पपातरूपस्य परिहासस्य बीजादिसंबन्ध इति प्रतिमुखसंध्यङ्गत्वमयुक्तम्249 । तत्राह अनेन 250 नर्मणेति ।

अथ नर्मद्युतिः—

धृतिस्तज्जा द्युतिर्मता ॥ ३३ ॥

यथा रत्नावल्याम्—

सुसंगता

251सहि, अदक्खिणा252 दाणिं सि तुमं । जा एवं पि भट्टिणा हत्थावलंबिदा कोवं ण मुंचसि ।

सागरिका
सभ्रूभङ्गमीषद्विहस्य ।

253सुसंगदे, दाणिं पि ण विरमसि ।254

इत्यनेनानुरागबीजोद्धाटनान्वयेन255 धृतिर्नर्मजा द्युतिरिति दर्शितमिति ।

  1. A.T.A. arghyapātra-, etc.

  2. ‘हला, उपनय मे कुसुमानि यावदपरेषामपि देवानां सपर्यां निर्वर्तयामि ।’ इति च्छाया.

  3. पृ॰ ४९
  4. Before ity anena A.T.A. quotes some sentences from Veṇīsaṃhāra.

  5. M.G.T. reads yuktam. This is obviously an error of the scribe.

  6. Gr.MS. and Tri.MS. read karmaṇeti.

  7. ‘सखि, अदक्षिणेदानीमसि त्वम् । यैवमपि भर्त्रा हस्तावलम्बिता कोपं न मुञ्चसि ।’ इति च्छाया.

  8. N.S.P. adiṇiṭṭhurā.

  9. ‘सुसंगते, इदानीमपि न विरमसि ।’ इति च्छाया.

  10. पृ॰ ८३
  11. A.T.A. udghāṭanena.