34 अथ पर्युपासनम्—

पर्युपास्तिरनुनयः

यथा रत्नावल्याम्—

राजा
प्रसीदेति ब्रूयामिदमसति265 कोपे न घटते करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः ।
न मे दोषोऽस्तीति त्वमिदमपि हि ज्ञास्यसि मृषा किमेतस्मिन् वक्तुं क्षममिति न वेद्मि प्रियतमे ॥266
इत्यनेन चित्रगतयोर्नायकयोर्दर्शनात् कुपिताया वासवदत्ताया267 अनुरागोद्धाटनान्वयेन पर्युपासनमिति ।

अथ पुष्पम्—

पुष्पं वाक्यं विशेषवत् ॥ ३४ ॥

यथा रत्नावल्याम्—

राजा सागरिकां हस्ते गृहीत्वा स्पर्शं नाटयति
विदूषकः

268भो 269एसा अपुव्वा सिरी तुए समासादिदा ।270

राजा

वयस्य, सत्यम्—

श्रीरेषा पाणिरप्यस्याः पारिजातस्य पल्लवः ।
कुतोऽन्यथा स्रवत्येष स्वेदच्छद्मामृतद्रवः ॥271
इत्यनेन नायकयोः साक्षादन्योन्यदर्शनादिना सविशेषानुरागोद्धाटनात् पुष्पम् ।

अथोपन्यासः—

272प्रसादनमुपन्यासो273

  1. A.T.A. reads asati doṣe, and kariṣye naivāham.

  2. २।१९
  3. N.S.P. vāsavadattāyā anunayanaṃ nāyakayor anurāgo-, etc.

  4. ‘भोः, एषापूर्वा श्रीस्त्वया समासादिता ।’ इति च्छाया.

  5. A.T.A. bho vayassa.

  6. पृ॰ ८२
  7. २।१७
  8. ‘उपन्यासस्तु सोपानं’ इति पाठः.

  9. A.T.A. gives vajraṃ, etc. first, and then upanyāsa.