5 पेक्षया संगच्छते । ततः शास्त्रेण 42सह विषयैक्यप्रसक्तं पौनरुक्त्यमुत्तरश्लोकेन परिहरतीत्यर्थः । ननु शास्त्रेणोक्तस्य त्वयापि 43कथने किं प्रयोजनम् । अत आह व्याकीर्ण इति । यद्यपि शास्त्रेणोक्तोऽयमर्थः, तथापि तेन विक्षेपाद् विस्तरतश्चोक्तमर्थमहं44 संक्षेपेणार्जवेन च वदामीत्यर्थः । 45उत्तरोक्तपरिहारद्वयकटाक्षेण व्याचष्टे व्याकीर्णे विक्षिप्ते विस्तृते चेति । बुद्धेर्मान्द्यं नाम 46न विषयाणामग्रहः । किं तु अल्पविषयत्वम् । तेनाह अल्पबुद्धीनामिति । अल्पस्य बुद्धिरल्पबुद्धिः । अल्पविषया बुद्धिरित्यर्थः । विक्षिप्ते विभ्रमो भवति । विस्तीर्णे विस्मरणम्47 । उभयसंग्रहार्थं व्यामोह इत्युक्तम् । तस्येत्यत्र तद्वृत्तेन48 नाट्यवेदः परामृश्यते इत्याह तस्य नाट्यवेदस्येति । यद्यप्ययमर्थः विक्षिप्ते विभ्रमो भवतीति पूर्वश्लोकेनैव सूचितः, तथापि विक्षेपे विस्तरे च दर्शिते सति परिहारापेक्षा भवतीत्ययमेव परिहारः ।

इदं प्रकरणं दशरूपज्ञानफलम् । 49दशरूपज्ञानं किंफलमित्याह—

आनन्दनिष्यन्दिषु रूपकेषु व्युत्पत्तिमात्रं फलमल्पबुद्धिः ।
योऽपीतिहासादिवदाह साधुस्तस्मै नमः 50स्वादपराङ्मुखाय ॥

अत्र51 केचित्

धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।
करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम् ॥52
इत्यादिना त्रिवर्गादिव्युत्पत्तिं काव्यफलत्वेनेच्छन्ति । तन्निरासेन स्वसंवेद्यपरमानन्दरूपो53 रसास्वादो दशरूपाणां फलम्, न पुनरितिहासादिवत् त्रिवर्गादिव्युत्पत्तिमात्रमिति दर्शितम् । नम इति सोल्लुण्ठनम्54 ।

उत्तरस्य श्लोकस्य नमस्कारपर्यवसायित्वमसंगतमनुपयुक्तं च मन्वानः संगतेन सोपयोगेन च 55प्रयोजनाप्रयोजनकथनपरत्वेन तं व्याख्यास्यन् तदनुकूलां शङ्कामवतारयति इदमिति । अस्य 56हि प्रकरणस्य दशरूपक

  1. T. MS. omits saha.

  2. M.G.T. reads vacane, Tri. MS. vivacane.

  3. M.G.T. omits aham.

  4. M.G.T. reads uttarottaraparihāra- etc.

  5. T. MS. omits na.

  6. M.G.T. and Tri.MS. give vistāraṇam.

  7. tadvṛttam means tacchabdaḥ (vibhaktyantaḥ), just as yadvṛttaṃ means yacchabdaḥ, and kiṃvṛttaṃ kiṃśabdaḥ. See the kārikā about uddeśya and vidheya:

    yadvṛttayogaḥ prāthamyam ityādy uddeśyalakṣaṇam |
    tadvṛttayogaḥ paścāttvaṃ syād vidheyasya lakṣaṇam ||
    also quoted by Nāgeśa in his Laghumañjūṣā (C.S.S. 1925, pp. 1434–5), and Pāṇini’s rules yadvṛttān nityam, and kiṃvṛtte lipsāyām, and Kāśikā and Kaumudī thereon. See also Note 247b to L.Ṭ., and the L.Ṭ.

  8. N.S.P. daśarūpaṃ kiṃphalam ?

  9. N.S.P. svādu-.

  10. N.S.P. tatra.

  11. भामहः १।२
  12. A.T.A. paramānandasvarūpo.

  13. N.S.P. solluṇṭham.

  14. Except T.MS. all MSS. read prayojana–kathanaparatvena.

  15. T.MS. omits hi.