अथोपन्यासः—

272प्रसादनमुपन्यासो273

35 यथा रत्नावल्याम्—

सुसंगता

274भट्टा, अलं संकाए । मए वि भट्टिणो पसाएण कीलिदं एव्व । ता किं कण्णाभरणेण275 । अदो वि मे गरुओ पसाओ, जं कीस तए अहं एत्थ आलिहिअ त्ति कुविआ मे पिअसही साअरिआ । ता पसादीअदु ।276

इत्यनेन सुसंगतावचसा सागरिका मया लिखिता सागरिकया च त्वमिति सूचयता प्रसादोपन्यासेन बीजोद्भेदादुपन्यास इति ।

  1. ‘उपन्यासस्तु सोपानं’ इति पाठः.

  2. A.T.A. gives vajraṃ, etc. first, and then upanyāsa.

  3. ‘भर्तः, अलं शङ्क्या । मयापि भर्तुः प्रसादेन क्रीडितमेव । तत् किं कर्णाभरणेन । असावपि मे गुरुः प्रसादः, यत् कथं त्वयाहमत्रालिखितेति कुपिता मे प्रियसखी सागरिका । तत् प्रसाद्यताम् ।’ इति च्छाया.

  4. N.S.P. kaṇṇābharaṇakeṇa.

  5. पृ॰ ७९