अथ गर्भसंधिमाह—

गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः ।
द्वादशाङ्गः पताका स्यान्न वा स्यात् प्राप्तिसंभवः ॥ ३६ ॥

प्रतिमुखसंधौ लक्ष्यालक्ष्यरूपतया स्तोकोद्भिन्नस्य बीजस्य 285यः सविशेषोद्भेदपूर्वकः सान्तरायो लाभः पुनर्विच्छेदः पुनः प्राप्तिः पुनर्विच्छेदः पुनश्च तस्यैवान्वेषणं वारंवारं सोऽनिर्धारितैकान्तफलप्राप्त्याशात्मको गर्भसंधिरिति । तत्र चौत्सर्गिकत्वेन प्राप्तायाः पताकाया अनियमं दर्शयति—पताका स्यान्न वा इत्यनेन । प्राप्तिसंभवस्तु स्यादेवेति दर्शयति—स्यात् प्राप्तिसंभवः इति । यथा रत्नावल्यां तृतीयेऽङ्के वत्सराजस्य वासवदत्तालक्षणापायेन तद्वेषपरीग्रहसागरिकाभिसरणोपायेन च विदूषकवचसा सागरिकाप्राप्त्याशा प्रथमं पुनर्वासवदत्तया विच्छेदः पुनः प्राप्तिः पुनर्विच्छेदः पुनरपायनिवारणोपायान्वेषणं286 नास्ति देवीप्रसादनं मुक्त्वान्य उपायः इत्यनेन दर्शितमिति ।

तत्र चौत्सर्गिकत्वेनेति । पताकाप्राप्त्याशान्वयो हि गर्भसंधिः । सा च पताका अविशेषेण सर्वत्र प्राप्ता । तादृशस्तस्या अनियमं दर्शयतीत्यर्थः ।37 अवस्थान्वयो हि तस्याः संधिप्रयोजकः । तदभावे तन्निबन्धनसंधिमात्रमेव न स्यात् । अवस्थाविशेष कृतस्तु स्यादेवेति ब्रवीतीत्याह प्राप्तिसंभवस्त्विति । अनियता हि पताका । 287नियता तु प्राप्त्याशा । तस्याः नियमेन गर्भसंध्यनुप्रविष्टत्वात् ।

  1. N.S.P. omits yaḥ.

  2. रत्ना॰ पृ॰ १२५
  3. The point noted by Śāradātanaya as apatāke niveśaḥ syād bindor bījasya vā kvacit (p. 210) does not seem to be known to Bh.Nṛ. Bh.Nṛ does not seem to be aware also of Śiṅgabhūpāla’s statement: patākayā vihīne tu binduṃ vā viniveśayet (T.S.S., p. 215). Perhaps he was earlier than these two. See the Introduction.

    In the text of the L.T. here we should perhaps supply niyamena before garbhasaṃdhyanupraviṣṭatvāt. Otherwise it is not clear. Only T.MS. reads kāryaniyatā tu prāptyāśā.