38

विदूषकः

293अइरेण सयं एव्व पेक्खिअ जाणिहिसि ।

राजा

दर्शनमपि भविष्यति ?

विदूषकः
सगर्वम्

294कीस ण भविस्सदि, जस्स दे उवहसिदविहप्फदिबुद्धिविहवो अहं अमच्चो ।

राजा

तथापि कथमिति श्रोतुमिच्छामि ।

विदूषकः
कर्णे कथयति

295एव्वं ।296

इत्यनेन यथा विदूषकेण सागरिकासमागमः सूचितः, तथैव निश्चितरूपो राज्ञे निवेदित इति तत्त्वार्थकथनात् मार्ग इति ।

अथ रूपम्—

रूपं वितर्कवद्वाक्यं

यथा रत्नावल्याम्—

राजा

अहो किमपि कामिजनस्य स्वगृहिणीसमागमपरिभाविनोऽभिनवं जनं प्रति पक्षपातः । तथा हि—297

प्रणयविशदां दृष्टिं वक्त्रे ददाति न शङ्किता घटयति घनं कण्ठाश्लेषे रसान्न पयोधरौ ।
वदति बहुशो गच्छामीति प्रयत्नधृताप्यहो रमयतितरां संकेतस्था तथापि हि कामिनी ॥298

कथं चिरयति वसन्तकः ? किं नु खलु विदितः स्यादयं वृत्तान्तो देव्याः ।

इत्यनेन रत्नावलीसमागमप्राप्त्याशानुगुण्येनैव देवीशङ्कायाश्च वितर्काद् रूपमिति ।

  1. ‘अचिरेण स्वयमेव प्रेक्ष्य ज्ञास्यसि ।’ इति च्छाया.

  2. ‘कथं न भविष्यति, यस्य त उपहसितबृहस्पतिबुद्धिविभवोऽहममात्यः।’ इति च्छाया.

  3. ‘एवम्’ इति च्छाया.

  4. पृ॰ १०२
  5. पृ॰ ११०
  6. ३।९