39 अथोदाहरणम्—

सोत्कर्षं स्यादुदाहृतिः ।

यथा रत्नावल्याम्—

विदूषकः
सहर्षम्

299ही ही भोः, कोसंबीरज्जलाहेणावि ण तादिसो वअस्सस्स परितोसो आसि, यादिसो मम सआसादो पिअवअणं सुणिअ भविस्सदि त्ति तक्केमि ।300

इत्यनेन रत्नावलीप्राप्तिवार्तापि कौशाम्बीराज्यलाभादतिरिच्यत इत्युत्कर्षाभिधानादुदाहृतिरिति ।

अथ क्रमः—

क्रमः संचिन्त्यमानाप्तिर्

यथा रत्नावल्याम्—

राजा

उपनतप्रियासमागमोत्सवस्यापि मे किमिदमत्यर्थमुत्ताम्यति चेतः । अथवा—301

तीव्रः स्मरसंतापो न तथादौ बाधते यथासन्ने ।
तपति प्रावृषि सुतरामभ्यर्णजलागमो दिवसः ॥302
विदूषकः
आकर्ण्य

303भोदि सागरिए, एसो पिअवअस्सो तुमं एव्व उद्दिसिअ उक्कंठाणिव्भरं मंतेदि । ता निवेदेमि से तुहागमणं ।

इत्यनेन वत्सराजस्य सागरिकासमागममभिलषत एव भ्रान्तसागरिकाप्राप्तिरिति क्रमः ।

अथ क्रमान्तरं मतभेदेन—

भावज्ञानमथापरे ॥ ३९ ॥

  1. ‘ही ही भोः, कौशाम्बीराज्यलाभेनापि न तादृशो वयस्यस्य परितोष आसीत्, यादृशो मम सकाशात् प्रियवचनं श्रुत्वा भविष्यतीति तर्कयामि ।’ इति च्छाया.

  2. पृ॰ १०१
  3. पृ॰ ११४
  4. ३।१०
  5. ‘‘भवति सागरिके, एष प्रियवयस्यस्त्वामेवोद्दिश्योत्कण्ठानिर्भरं मन्त्रयति । तन्निवेदयामि तस्मै तवागमनम् ।’ इति च्छाया.