6 ज्ञानं फलमुक्तं व्रजति जनो येन वैदग्धीम्57 इति । न च दशरूपज्ञानं स्वतः फलम् । किंतु फलान्तरहेतुतया, पश्वादिवत् । 58तत् फलान्तरं कीदृशमित्यर्थः । तत्प्रदर्शनपरस्य श्लोकस्यायमर्थः । आनन्दनिष्यन्दीनि ह 59त्रिवर्गव्युत्पत्तिकराणि रूपकाणि । तत् तेषां यः साधुरल्पबुद्धिः सन्नितिहासादीनामिव 60त्रिवर्गव्युत्पत्त्यादिमात्रफलतामाह स्वादपराङ्मुखाय तस्मै नम इति । तमिमं तथा व्याख्यास्यन् यैस्त्रिवर्गव्युत्पत्तिमात्रफलत्वमुक्तं तेषां 61मूलं दर्शयति धर्मार्थकामेति । अत्र चतुर्वर्गप्रसङ्गात् पठितस्यापि मोक्षस्याभिनयशून्यतया तमनादृत्य त्रिवर्गपरतामेवास्य ग्रन्थस्य स्वरीत्या दर्शयन् तथैव पठति त्रिवर्गादिव्युत्पत्तिमिति । स्वसंवेद्येति । स्वसंवेद्यो निरतिशयसुखसंविद्रूपः परमानन्दः । स एव रसः । तस्य स्वतः प्रकाशमानस्य आस्वादो नाम अन्तःकरणे प्रतिबिम्बितस्य काव्यार्थेन तत्र संक्रान्तेन संबन्धः । तस्माद् रूपकाणां तथाविधो रसास्वाद एव फलमिति । न केवलं त्रिवर्गादिव्युत्पत्तिरेव किंतु सापीति दर्शितं मात्रशब्देन । ऋजुबुद्धीनुपच्छन्दयति नम इति सोल्लुण्ठनमिति ।

नाट्यानां लक्षणं संक्षिपामि62 इत्युक्तम्, किं पुनस्तन्नाट्यमित्याह—

अवस्थानुकृतिर्नाट्यं

काव्योपनिबद्धधीरोदात्ताद्यवस्थानुकारश्चतुर्विधाभिनयेन 63वाचिकाङ्गिकसात्त्विकाहार्यरूपेण तादात्म्यापत्तिर्नाट्यम् ।

विषयप्रयोजनोक्तयैव तदन्तर्गतः संबन्धोऽप्युक्तः । एवं प्रतिपन्नप्रयोजनाभिधेयसंबन्धं64 जिज्ञासुं पृच्छन्तं प्रत्युत्तरमाहेति वदति किं पुनरिति । कीदृश्योऽवस्थाः किदृशी चानुकृतिरित्यपेक्षायां व्याचष्टे काव्योपनिबद्धेति । अभिनयाकृष्टमभिनेयं तच्छब्देन परामृशति तादात्म्यापत्तिरिति65 । अभिनयस्यारोपरूपत्वात् । चातुर्विध्यं च तस्याङ्गिकसात्त्विकवाचिकाहार्यभेदात् । एतदुक्तं भवति । रामादिनायका न स्वरूपेणोपयुज्यन्ते । अभिनयकाले तेषामसत्त्वात् । किं तु काव्योपनिबद्धधीरोदात्ताद्यवस्थावद्रूपेण । नायकादि

  1. १।३
  2. In T.MS. tat is missing.

  3. Tri. MS. reads ānandaniṣyandiṣv iti, and M.G.T. ānandaniṣyandīti. Both read trivargavyutpattikarāṇi ca rūpakāṇi. The particle ha is a prasiddhyarthakāvyaya, and the significance intended here seems to be this: yāni trivargavyutpattikarāṇi rūpakāṇi tāni ānandaniṣyandīni ha, ānandaniṣyandīni iti prasiddhāni (rasikasamāje). evaṃ sati tatrānandāṃśaṃ parityajya yaḥ sādhuḥ vyutpattyādimātraphalatām āha tasmai namaḥ, etc. See Vaijayantī for the meaning of ha.

  4. Tri.MS. reads vyutpattimātraphalatām āha.

  5. Only in T.MS. mūlam seems to be missing.

  6. १।४
  7. vācikāṅgika ... rūpeṇa is missing in N.S.P.

  8. M.G.T. gives the reading shown in the text. Tri.MS. reads saṃbandhajijñāsum. T.MS. reads evaṃ pratipanne prayojanābhidheyasaṃbandhajijñāsum.

  9. Cf.:

    sāttvikādyair abhinayaiḥ prekṣakāṇāṃ yato bhavet |
    naṭe nāyakatādātmyabuddhis tan nāṭyam ucyate ||
    (Rasārṇavasudhākara, T.S.S., p. 8)
    avasthānukṛtir nāṭyam iti sāmānyalakṣaṇam |
    rāmāditādātmyāpattir naṭe yā nāṭyam ucyate ||
    (Bhāvaprakāśa, G.O.S., p. 180). B.M. says: yat naṭasya prekṣakabuddhyā rāmāditādātmyāpattiḥ … tat nāṭyam.