40 यथा रत्नावल्याम्—

राजा
उपसृत्य

प्रिये सागरिके—304

र्शातांशुर्मुखमुत्पले तव दृशौ पद्मानुकारौ करौ रम्भागर्भनिभं तवोरुयुगलं बाहू मृणालोपमौ ।
इत्याह्लादकराखिलाङ्गि रभसान्निःशङ्कमालिङ्गय मा- मङ्गानि त्वमनङ्गतापविधुराण्येह्येहि निर्वापय ॥305
इत्यादिना इह तदप्यस्त्येव बिम्बाधरे ।306 इत्यन्तेन वासवदत्तया वत्सराजमावस्य ज्ञातत्वात् क्रमान्तरमिति ।

अथ संग्रहः—

संग्रहः सामदानोक्तिर्

यथा रत्नावल्याम्—

साधु वयस्य, साधु । इदं ते पारितोषिकम्

इति कटकं ददाति
307
इत्याभ्यां सामदानाभ्यां विदूषकस्य सागरिकासमागमकारिणः संग्रहात् संग्रह इति ।

अथानुमानम्—

अभ्यूहो लिङ्गतोऽनुमा ।

यथा रत्नावल्याम्—

राजा

धिङ् मूर्ख, त्वत्कृत एवायमापतितोऽस्माकमनर्थः । कुतः—308

समारूढा प्रीतिः प्रणयबहुमानात् प्रतिदिनं व्यलीकं वीक्ष्येदं कृतमकृतपूर्वं खलु मया ।
प्रिय मुञ्चत्यद्य स्फुटमसहना जीवितमसौ प्रकृष्टस्य प्रेम्णः स्खलितमविषह्यं हि भवति ॥309

  1. पृ॰ ११५
  2. ३।११
  3. ३।१३
  4. पृ॰ १०३
  5. पृ॰ १२३
  6. ३।१५