41 विदूषकः

310भो वअस्स, वासवदत्ता किं करिस्सदि त्ति ण जाणामि । सागरिआ उण दुक्करं जीविस्सदि त्ति तक्केमि ।

इत्यत्र प्रकृष्टप्रेमस्खलनेन सागरिकानुरागजन्येन वासवदत्ताया मरणाभ्यूहनमनुमानमिति ।

अथाधिबलम्—

अधिबलमभिसंधिः

यथा रत्नावल्याम्—

काञ्चनमाला

311भट्टिणि, इअं सा चित्तसालिआ । ता वसंतअस्स सण्णं करेमि ।

छोटिकां ददाति
312
इत्यादिना वासवदत्ताकाञ्चनमालाभ्यां सागरिकासुसंगतावेषाभ्यां राजविदूषकयोरतिसंधानादधिबलमिति313 ।

अथ तोटकम्—

संरब्धं तोटकं वचः ॥ ४० ॥

यथा रत्नावल्याम्—

वासवदत्ता
उपसृत्य

314अज्जउत्त, जुत्तमिणं सरिसमिणं ।

पुनः सरोषम्

अज्जउत्त, उट्ट‏ठेहि । किं अज्जवि अहिजादाए सेवादुक्खमणुभवीअदि । कंचणमाले, एदेण एव्व लदापासेण बंधिअ आणेहि एणं दुट्‏ठबम्हणं । एदं पि दुट्‏ठकण्णअं अग्गदो करेहि ।315

इत्यनेन वासवदत्तासंरब्धवचसा सागरिकासमागमान्तरायभूतेनानियतप्राप्तिकारणं तोटकमुक्तम् ।

  1. ‘भो वयस्य, वासवदत्ता किं करिष्यतीति न जानामि । सागरिका पुनर्दुष्करं जीविष्यतीति तर्कयामि ।’ इति च्छाया.

  2. ‘भर्त्रि, इयं सा चित्रशालिका । तद्वसन्तकस्य संज्ञां करोमि ।’ इति च्छाया.

  3. पृ॰ ११२
  4. N.S.P. -yor abhisaṃdhīyamānatvād.

  5. ‘आर्यपुत्र, युक्तमिदं सदृशमिदम् । आर्यपुत्र, उत्तिष्ठ । किमद्याप्यभिजातायाः सेवादुःखमनुभूयते । काञ्चनमाले, एतेनैव लतापाशेन बद्ध्वानयैन दुष्टब्राह्मणम् । एतामपि दुष्टकन्यकामग्रतः कुरु ।’ इति च्छाया.

  6. पृ॰ १३२