42 यथा च वेणीसंहारे—प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशाम् ।316 इत्यादिना, धृतायुधो यावदहं तावदन्यैः किमायुधैः ।317 इत्यन्तेनान्योन्यं कर्णाश्वत्थाम्नोः संरब्धवचसा सेनाभेदकारिण पाण्डवविजयप्राप्त्याशान्वितं तोटकमिति ।

ग्रन्थान्तरे तु—

318तोटकस्यान्यथाभावं ब्रुवतेऽधिबलं बुधाः ।

यथा रत्नावल्याम्319

राजा

देवि, एवमपि प्रत्यक्षदृष्टव्यलीकः किं विज्ञापयामि—

आताम्रतामपनयामि विलक्ष एव लाक्षाकृतां चरणयोस्तव देवि मूर्ध्ना ।
कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमो यदि परं करुणा मयि स्यात् ॥320

321संरब्धवचनं यत्तु तोटकं तदुदाहृतम् ॥ ४१ ॥

यथा रत्नावल्याम्—

राजा

प्रिये वासवदत्ते, प्रसीद प्रसीद ।

वासवदत्ता
अश्रूणि धारयन्ती

322अज्जउत्त, मा एव्वं भण । अण्णसंकंताइं खु एदाइं अक्खराइं त्ति ।323

यथा च वेणीसंहारे—

राजा

अये सुन्दरक, कच्चित् कुशलमङ्गराजस्य ?

पुरुषः

324कुसलं सरीरसेत्तकेण ।

राजा

किं तस्य

  1. ३।३४
  2. ३।४६
  3. Bahurūpamiśra gives kapaṭasyānyathābhāvam.

  4. पृ॰ १२१
  5. ३।१४
  6. Bracketed portion is omitted by A.T.A. and Bahurūpamiśra. Omission seems to be proper. But it was given in the N.S.P.

  7. ‘आर्यपुत्र, मैवं भण । अन्यसंक्रान्तानि खल्वेतान्यक्षराणिति ।’ इति च्छाया.

  8. पृ॰ १२०
  9. ‘कुशलं शरीरमात्रकेण ।’ इति च्छाया.