43 किरीटिना हता धौरेयाः, क्षतः सारथिः, भग्नो वा रथः ?

पुरुषः

325देव, णं भग्गो रहो भग्गो से मणोरहो ।

राजा
ससंभ्रमम्

कथम् ?326

इत्येवमादिना संरब्धवचसा तोटकमिति ।

अथोद्वेगः—

उद्वेगोऽरिकृता भीतिः

327यथा रत्नावल्याम्—

सागरिका
आत्मगतम्

328कहं अकिदपुण्णेहिं अत्तणो इच्छाए मरिउं पि ण पारीअदि ।329

इत्यनेन वासवदत्तातः सागरिकाया भयमिति उद्वेगः । यो हि यस्यापकारी स तस्यारिः ।

यथा च वेणीसंहारे—

सूतः
श्रुत्वा सभयम्

कथमासन्न एवासौ कौरवराजपुत्रमहावनोत्पातमारुतो मारुतिरनुपलब्धसंज्ञश्च तावदयं महाराजः । भवतु । दूरमपहरामि स्यन्दनम् । कदाचिदयमनार्यो दुःशासन इवास्मिन्नप्यनार्यमाचरिष्यति ।330

इत्यरिकृता भीतिरुद्वेगः ।

अथ संभ्रमः—

शङ्कात्रासौ च संभ्रमः ।

यथा रत्नावल्याम्—

विदूषकः
पश्यन्

331का उण एसा ।

ससंभ्रमम्

कधं देवी वासवदत्ता अत्ताणं वावदेदि ।

राजा
ससंभ्रममुपसर्पन्

क्वासौ क्वासौ ।332

इत्यनेन वासवदत्ताबुद्धिगृहीतायाः सागरिकाया मरणशङ्कया संभ्रम इति ।

  1. ‘देव, न भग्नो रथः । भग्नोऽस्य मनोरथः ।’ इति च्छाया.

  2. पृ॰ १०५
  3. A.T.A. gives the illustration from Veṇīsaṃhāra first, and then that from the Ratnā:alī.

  4. ‘कथमकृतपुण्यैरात्मन इच्छया मर्तुमपि न पार्यते ।’ इति च्छाया.

  5. पृ॰ १३४
  6. पृ॰ ९६
  7. ‘का पुनरेषा । कथं देवी वासवदत्तात्मानं व्यापादयति ।’ इति च्छाया.

  8. पृ॰ १२६