44 यथा च वेणीसंहारे—

नेपथ्ये कलकलः
अश्वत्थामा
ससंभ्रमम्

मातुल मातुल, कष्टम् । एष भ्रातुः प्रतिज्ञाभङ्गभीरुः किरीटी समं शरवर्षैर्दुर्योधनराधेयावभिद्रवति । सर्वथा पीतं शोणितं दुःशासनस्य भीमेन ।333

इति शङ्का । तथा
प्रविश्य संभ्रान्तः सप्रहारः
सूतः

त्रायतां त्रायतां कुमारः ।

इति त्रासः । इत्येताभ्यां त्रासशङ्काभ्यां दुःशासनद्रोणवधसूचकाभ्यां पाण्डवविजयप्राप्त्याशान्वितः संभ्रम इति ।

अथाक्षेपः—

गर्भबीजसमुद्भेदादाक्षेपः परिकीर्तितः ॥ ४२ ॥

334यथा रत्नावल्याम्—

राजा

वयस्य, देवीप्रसादनं मुक्त्वा नान्यमत्रोपायं पश्र्यामि ।335

पुनः क्रमान्तरे336 सर्वथा देवीप्रसादनं प्रति निष्प्रत्याशीभूताः स्मः । पुनः337 तत् किमिह स्थितेन देवीमेव गत्वा प्रसादयामि । इत्यनेन देवीप्रसादायत्ता सागरिकासमागमसिद्धिरिति गर्भबीजोद्भेदादाक्षेपः ।

यथा च वेणीसंहारे—

सुन्दरकः

338अहवा किमेत्थ देव्वं उआलहामि । तस्स क्खु एदं णिब्भच्छिदविदुरवअणबीअस्स परिभूदपिदामहहिदोवदेसंकुरस्स सउणिप्पोच्छाहणारूढमूलस्स 339कूडविससाहिणो पंचालीकेसग्गहणकुसुमस्स फलं परिणमेदि ।340

इत्यनेन बीजमेव फलोन्मुखतयाक्षिप्यत इत्याक्षेपः ।

  1. पृ॰ ९३
  2. There is some difference in the reading in the printed Ratnā:alī.

  3. पृ॰ १२५
  4. पृ॰ १३३
  5. पृ॰ १३५
  6. ‘अथवा किमत्र दैवमुपालभे । तस्य खल्वेतन्निर्भर्त्सितविदुरवचनबीजस्य परिभूतपितामहहितोपदेशाङ्कुरस्य शकुनिप्रोत्साहनारूढमूलस्य कूटविषशाखिनः पाञ्चालीकेशग्रहणकुसुमस्य फलं परिणमति ।’ इति च्छाया.

  7. A.T.A. jūdavisasāhiṇo.

  8. पृ॰ १०३