47 अथ संफेटः—

संफेटो रोषभाषणम् ।

यथा वेणीसंहारे—

भो कौरवराज, कृतं बन्धुनाशदर्शनमन्युना । मैवं विषादं कृथाः पर्याप्ताः पाण्डवाः समरायाहमसहाय इति ।353

पञ्चानां मन्यसेऽस्माकं यं सुयोधं युयोधन ।
दंशितस्यात्तशस्त्रस्य तेन तेऽस्तु रणोत्सवः ॥354

इत्थं श्रुत्वासूयात्मिकां निक्षिप्य कुमारयोर्दृष्टिमुक्तवान् धार्तराष्ट्रः—

कर्णदुःशासनवधात् तुल्यावेव युवां मम ।
अप्रियोऽपि प्रियो योद्धुं त्वमेव प्रियसाहसः ॥355

इत्युत्थाय च परस्परक्रोधाधिक्षेपपरुषवाक्कलहप्रस्तावितघोरसंग्रामौ—

इत्यनेन भीमदुर्योधनयोरन्योन्यरोषसंभाषणाद् विजयबीजान्वयेन संफेट इति ।

अथ विद्रवः—

विद्रवो वधबन्धादिर्

यथा छलितरामे—

येनावृत्य मुखानि साम पठतामत्यन्तमायासितं बाल्ये येन हृताक्षसूत्रवलयप्रत्यर्पणैः क्रीडितम् ।
युष्माकं हृदयं स एष विशिखैरापूरितांसस्थलो मूर्च्छाघोरतमःप्रवेशविवशो बद्ध्वा लवो नीयते ॥

यथा च रत्नावल्याम्—

हर्म्याणां हेमशृङ्गश्रियमिव शिखरैरर्चिषामादधानः सान्द्रोद्यानद्रुमाग्रग्लपनपिशुनितात्यन्ततीव्राभितापः ।

  1. पृ॰ १६५
  2. ६।१०
  3. ६।११