51 इत्यनेन 370चारुदत्तवधसूचनया अवधाभ्युदयानुकूलं प्रसङ्गाद् गुरुकीर्तनमिति प्रसङ्गः ।

अथ छलनम्—

छलनं चावमाननम् ॥ ४६ ॥

यथा रत्नावल्याम्—

राजा

अहो निरनुरोधा मयि देवी ।371

इत्यनेन 372वासवदत्तयेष्टासंपादनाद् वत्सराजस्यावमाननात् छलनम् ।

यथा च रामाभ्युदये सीतायाः परित्यागेनावमाननात् छलनमिति ।

अथ व्यवसायः—

व्यवसायः स्वशक्त्युक्तिः

यथा रत्नावल्याम्—

ऐन्द्रजालिकः
373किं धरणीए मिअंको आआसे महिहरो जले जलणो ।
मज्झण्हंमि पओसो दाविज्जउ देहि आणत्तिं ॥

अहवा किं बहुणा जंपिएण—

मज्झ पइण्णा एसा भणामि हिअएण जं महसि दट्‏ठुं ।
तं ते दावेमि फुडं गुरुणो मंतप्पहावेण ॥375
इत्यनेनैन्द्रजालिको मिथ्याग्निसंभ्रमोत्थापनेन वत्सराजस्य हृदयस्थसागरिकादर्शनानुकूलां स्वशक्तिमाविष्कृतवान् ।

  1. N.S.P. cārudattavadhābhyudayānukūlam.

  2. पृ॰ १४१
  3. A.T.A. vāsavadattayāniṣṭasaṃpādanāt.

  4. ‘किं धरण्यां मृगाङ्क आकाशे महीधरो जले ज्वलनः मध्याह्ने प्रदोषो दर्श्यतां देह्याज्ञप्तिम् ॥

    अथवा किं बहुना जल्पितेन ।373

  5. ४।८
  6. मम प्रतिज्ञैषा भणामि हृदयेन यद्वाञ्छसि द्रष्टुम् ।
    तत्ते दर्शयामि स्फुटं गुरोर्मन्त्रप्रभावेण ॥’

    इति च्छाया.

  7. ४।८
  8. रत्ना॰ ४।९