अथ विरोधनम्—

377संरब्धानां विरोधनम् ।

यथा वेणीसंहारे—

राजा

रे रे मरुत्तनय, किमेवं वृद्धस्य राज्ञः पुरतो निन्दितव्यमात्मकर्म श्लाघसे ? अपि च—378

कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञस्तयोर्वा प्रत्यक्षं भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी ।
अस्मिन् वैरानुबन्धे तव किमपकृतं तैर्हता ये नरेन्द्रा बाह्वोर्वीर्यातिसारद्रविणगुरुमदं मामजित्वैव दर्पः ॥379
भीमः क्रोधं नाटयति
अर्जुनः

आर्य, प्रसीद । किमत्र क्रोधेन ।

अप्रियाणि करोत्येष वाचा शक्तो न कर्मणा ।
हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ॥380
भीमः

अरे भरतकुलकलङ्क—

381अद्यैव किं न विसृजेयमहं भवन्तं दुःशासनानुगमनाय कटुप्रलापिन् ।
53
विघ्नं गुरू न कुरुतो यदि मत्कराग्र- निर्भिद्यमानरणितास्थनि ते शरीरे ॥382

अन्यच्च मूढ—

शोकं स्त्रीवन्नयनसलिलैर्यत् परित्याजितोऽसि भ्रातुर्वक्षःस्थलविदलने यच्च साक्षीकृतोऽसि ।
आसीदेतत् तव कुनृपतेः कारणं जीवितस्य क्रुद्धे युष्मत्कुलकमलिनीकुञ्जरे भीमसेने ॥383
राजा

दुरात्मन् भरतकुलापसद पाण्डवपशो, नाहं भवानिव विकत्थनाप्रगल्भः ।

किंतु—

द्रक्ष्यन्ति न चिरात् सुप्तं बान्धवास्त्वां रणाङ्गणे ।
मद्गदाभिन्नवक्षोऽस्थिवेणिकाभङ्गभीषणम् ॥384
इत्यादिना संरब्धयोर्भीमदुर्योधनयोः स्वस्वशक्त्युक्तिर्विरोधनमिति ।

  1. ‘संरम्भोक्तिः’ इति पाठः.

  2. पृ॰ १४७
  3. वे॰ सं॰ ५।३०
  4. वे॰ सं॰ ५।३१
  5. ‘अत्रैव’ इति पाठः.

  6. वे॰ सं॰ ५।३२
  7. वे॰ सं॰ ५।३३
  8. वे॰ सं॰ ५।३४